SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ २८ प्रमाणनयतत्त्वालोके [सं०८-१२ यथा यावान् कश्चिद् धूमः स सर्वो वह्नौ सत्येव __ भवतीति तस्मिन्नसत्यसौ न भवत्येव ॥८॥ इदं च तर्कापरपर्यायं व्याप्तिज्ञानं तदोपपत्त्यन्यथानुपपत्तिभ्यां प्रवर्तत इति प्रदर्शयन्ति, यथेत्यादिना-अत्राऽऽद्यमुदाहरणमन्वयव्याप्ती, द्वितीयं तु व्यतिरेकव्याप्ताविति ज्ञेयम् ॥ ८ ॥ अनुमानं द्विप्रकारम्, स्वार्थ परार्थ च ॥ ९॥ स्वार्थानुमान-परार्थानुमानभेदादनुमानं द्विविधमित्यर्थः ॥ ९ ॥ तत्र हेतुग्रहणसम्बन्धस्मरणकारणकं साध्य विज्ञानं स्वार्थम् ॥१०॥ हेतुग्रहण-सम्बन्धस्मरणाभ्यां जायमानं यत् साध्यस्य ज्ञानं तत् स्वार्थानुमानमित्यर्थः । अयं भावः-वनं गतः कश्चित् पुमान् प्रथमं पर्वतवृत्तिमलेखां पश्यति, ततः ' यत्र यत्र धूमस्तत्र तत्र वह्निः' इत्याकारिकां व्याति स्मरति, ततः 'अयं वह्निमान्' इत्याकारकं यग्ज्ञानमुन्म जति तत् स्वार्थानुमानमित्युच्यते ॥ १० ॥ निश्चितान्यथानुपपत्त्येकलागो हेतुः ॥ ११ ॥ अन्यथानुपपत्तिः-अविनाभावः, सा च साध्यवद् भिनावृत्तिवरूपा, हेत्वधिकरणवृत्त्यभावाऽप्रतियोगिसाध्यसामानाधिकरण्यरूमा वा। निश्चिताऽन्यथानुपपत्तिरेव लक्षगं स्वरूपं यस्य स हेतुरित्यर्थः ॥ ११ ॥ न तु त्रिलक्षणकादिः॥१२॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy