________________
२९
सू०१३-१५] तृतीयः परिच्छेदः
त्रीणि लक्षणानि-पक्षसत्त्व-सपक्षसत्त्व-विपक्षाऽसत्त्वानि यस्य स त्रिलक्षणकः सौगतसम्मतः, आदिपदेनासत्प्रतिपक्षत्वमबाधितविषयत्वमिति द्वयं मिलित्वा नैयायिकाभिमतः पञ्चलक्षणकश्च हेतुर्न भवतीति भावः ॥ १२॥
तस्य हेत्वाभासस्यापि सम्भवात् ॥ १३ ॥ तस्य पक्षसत्त्वादिरूपस्य हेतुलक्षणस्य ‘पर्वतो धूमवान् वह्नः' इति हेत्वाभासस्यापि संभवादतिव्याप्तिः स्यात् । अयं भावः-'पर्वतो धूमवान् वह्नः' इत्यादिव्यभिचारिस्थलेष्वपि हेतोस्त्रिलक्षगत्वादिकं वर्तते, तथाहि-पक्षे पर्वते हेतुभूतस्य वह्नर्विद्यमानत्वात् पक्षसत्त्वम् , सपक्षेमहानसेऽपि विद्यमानत्वात् सपक्षसत्त्वम् , विपक्षात्-जाहदाद् व्यावर्त्तमानत्वाद् विपक्षाऽसत्त्वम् प्रतिपक्ष्यनुमानाभावाद् असत्प्रतिपक्षत्वम् , प्रत्यक्षादिप्रमाणैर्बाधारहितत्वादबाधितत्वं च वर्त्तते, न चास्य सद्धेतुत्वम्, तस्मात् त्रिलक्षणकत्वादि हेतुलक्षणत्वेन सौगतादिभिरनङ्गीकरणीयमिति ॥ १३ ॥
अप्रतीतमनिराकृतमभीप्सितं साध्यम् ॥१४॥
अप्रतीतम्-अनिश्चितम् , अनिराकृतम्-प्रत्यक्षादिप्रमाणैरबाधितम् , अभीप्सितम्-साध्यत्वेनेष्टम् , साध्यं भवतीति शेषः ॥ १४ ॥ शङ्कितविपरीतानध्यवसितवस्तूनां साध्यताप्रति
पत्त्यर्थमप्रतीतवचनम् ॥ १५॥ अनन्तरसूत्रे 'अप्रतीतम्' इति वचनाऽभावे शङ्कितविषयाणां