SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ३० प्रमाणनयतत्त्वालोके [सू० १६-१९ विपरीतानामनध्यवसित(अनिश्चित )वस्तूनां साध्यत्वं न स्याद् , इत्यप्रतीतवचनम् ॥ १५ ॥ प्रत्यक्षादिविरुद्धस्य साध्यत्वं मा प्रसज्यतामित्य निराकृतग्रहणम् ॥१६॥ प्रत्यक्षविरुद्धं यथा-वहिरनुष्णः।' अनुमानविरुद्धं यथा-'शब्दस्य एकान्तनित्यत्वम् ' । आगमविरुद्धं यथा-'प्रेत्याऽसुखप्रदत्वं धर्मस्य'। एतादृशानां प्रत्यक्षादिबाधितानां साध्यत्वं मा प्रसग्यतामित्येतदर्थमनिराकृतग्रहणम् ।। १६ ॥ अनभिमतस्याऽसाध्यत्वप्रतिपत्तयेऽभीप्सितपदो पादानम् ।। १७ ॥ अनभिमतस्य -- साधयितुमनिष्टस्य ( यथा जैनानां, शब्दे एकान्तनित्यत्वं सर्वथाऽनभिमतं) साध्यत्वं मा भवतु इत्यभीप्सितोपादानम् ॥ १७॥ व्याप्तिग्रहणसमयापेक्षया साध्यं धर्म एव, अन्यथा तदनुपपत्तेः॥ १८॥ यद्यपि व्यवहारकाले ‘पर्वतो वह्निमान्' इत्याकारको धर्मविशिष्टो धर्मी साध्यशब्देन व्यपदिश्यते, तथापि व्याप्तिग्रहणवेलायां साध्यशब्देन केवलं वह्निरूपो धर्म एव गृह्यते, अन्यथा व्याप्तेरनुपपत्तिः स्यादिति ॥ १८॥ नहि यत्र यत्र धृमस्तत्र तत्र चित्रभानोरिव धरित्री धरस्याप्यनुवृत्तिरस्ति ॥१९॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy