SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ सू० २०-२३] तृतीयः परिच्छेदः यत्र यत्र धूमस्तत्र तत्र यथा वह्निरनुवर्तते न तथा पर्वतो. ऽपि ॥ १९॥ आनुमानिकप्रतिप्रत्यवसरापेक्षया तु पक्षापरपर्याय स्तद्विशिष्टः प्रसिद्धो धर्मी ॥ २० ॥ आनुमानिकी प्रतिपत्ति:-अनुमितिः, तदपेक्षया ' पर्वतो वह्निमान्' इत्याकारको धर्मविशिष्टो धर्मी साध्यपदेन व्यपदिश्यते, अस्यैत्र पक्षेति नामान्तरम् ।। २० ॥ धर्मिणः प्रसिद्धिः क्वचिद् विकल्पतः, कुत्रचित् प्रमाणतः, क्वापि विकल्प-प्रमाणाभ्याम् ॥२१॥ धर्मिणः-पर्वतादेः ।। २१॥ यथा समस्ति समस्तवस्तुवेदी, क्षितिधरकन्धरेयं धूमध्वजवती, ध्वनिः परिणतिमान् ॥२२॥ 'समस्तवस्तुवेदी समस्ति' इत्यत्र समस्तवस्तुवेदी सर्वज्ञो धर्मी, तस्य च विकल्पेन प्रसिद्धिः, नहि हेतुप्रयोगात् पूर्व विकल्पं विहाय सर्वज्ञः केनापि प्रमाणेन सिध्यति । 'क्षितिधरकन्धरेय धूमध्वजवती' इत्यत्र धर्मिभूतायाः क्षितिधरकन्धरायाः प्रत्यक्षेणैव प्रसिद्धिः । 'ध्वनिः परिणतिमान्' इत्यत्र धर्मिणो–ध्वनेः प्रमाणेन विकल्पेन च प्रसिद्धिः, श्रूयमाणस्य शब्दस्य प्रत्यक्षप्रमाणेन, अतीतानागतयोस्तु विकल्पेन प्रसिद्धिरिति विवेकः ॥ २२॥ पक्षहेतवचनात्मकं परार्थमनुमानम् , उपचारात् ॥२३॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy