SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्त्वालोके [सू० २४-२५ ___पर्वतो वह्निमान् धूमात्' इत्याकारकं पक्षहेतुवचनात्मकं परार्थमनुमानम् , उपचारात्-पक्षहेतुवचनस्य जडत्वेन मुख्यतः प्रामाण्यासम्भवात् तत्रानुमानशब्दप्रयोगः, कारणे कार्योपचारादौपचारिकः, बोधव्यगतं ज्ञानं कार्य, तस्य च कारणं पक्षहेतुवचनम् । अथवा कार्ये कारणोपचारात्, वक्तृगतं स्वार्थानुमानं कारणं तस्य पक्षहेतुवचनं कार्यमिति ॥ २३ ॥ साध्यस्य प्रतिनियतधर्मिसम्बन्धितापसिद्धये हेतोरुपसंहारवचनवत् पक्षप्रयोगोऽप्यवश्य ___ माश्रयितव्यः ॥ २४ ॥ अयं भाव:-बौद्धाः खलु प्रक्षप्रयोगं नाङ्गीकुर्वन्ति, ते हि कदाचित् “यो यो धूमवान् स स वह्निमान् यथा महानसं, धूमवांश्वायम्" इत्याकारकं व्याप्तिपुरस्सरं पक्षधर्मतोपसंहारं,कदाचित् “धूमवानयं, यो यो धूमवान् स स वह्निमान् यथा महानसम्" इत्याकारकं पक्षधर्मताप्रदर्शनपूर्वकं व्याप्त्युपसंहा'मेवानुमानं वदन्ति, तान् पक्षप्रयोगमङ्गीकारयितुमाहुः-साध्यस्येत्यादि-यथा हेतोः प्रतिनियतधमि. सम्बन्धिताप्रसिद्धयर्थं “धूमवांश्चायम्" इत्याकारकं हेतोरूपसंहारवचनं स्वीक्रियते, तथैव साध्यस्य प्रतिनियतधर्मिसम्बघिताप्रसिस्यर्थ 'पर्वतो वह्निमान् ' इत्याकारकः पक्षप्रयोगोऽप्यङ्गीकर्तव्य इति ॥ २४॥ 'त्रिविधं साधनमभिधायैव तत्समर्थनं विदधानः कः खलु न पक्षप्रयोगमङ्गीकुरुते ? ॥२५॥ १. यथा त्रिविधं क ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy