________________
म०२६-२८]
तृतीयः परिच्छेदः
३३
कार्यस्वभावानुपलम्भमेदात् त्रिविधं साधनमभिधाय-उक्त्वा, असिद्धतादिनिरसनद्वारा स्वसाध्यसाधनसामर्थ्यप्रदर्शनरूपं तत्समर्थन विदधानः-कुर्वाणः कः खलु पक्षप्रयोगं नाङ्गीकुरुते ? अपि तु सर्वोऽपि प्रामाणिकः स्वीकुरुते इत्यर्थः । अयं भावः-पक्षप्रयोगमन्तरा त्रिविधस्य हेतोः समर्थनं निराश्रयं स्यात् , तस्मात् तत्समर्थनं कुर्वता सौगतेन पक्षप्रयोगोऽवश्यमङ्गीकर्तव्य एव ॥ २५ ॥ प्रत्यक्षपरिच्छिन्नार्थाभिधायिवचनं परार्थ प्रत्यक्ष,
परप्रत्यक्षहेतुत्वात् ॥ २६ ॥ यथानुमानेन प्रतीतोऽर्थः परं प्रति प्रतिपाद्यमानो वचनरूपापन्नः परार्थमनुमानमभिधीयते तथा प्रत्यक्षेणावगतोऽप्यर्थोऽन्यस्मै प्रतिपाचमानः परार्थ प्रत्यक्षमित्युच्यताम् , परप्रत्यायनस्योभयत्राप्यविशिष्टत्वादिति भावः ॥२६॥
यथा पश्य पुरः स्फुरकिरणमणिखण्डमण्डिता
भरणभारिणीं जिनपतिपतिमाम् ॥ २७ ॥ पक्ष-हेतुवचनलक्षणमवयवद्वयमेव परमतिपत्तेरङ्गं न
दृष्टान्तादिवचनम् ॥ २८ ॥ 'पर्वतो वह्निमान् धूमात् ' इत्याकारकमवयवद्वयमेव प्रतिपाद्यगतज्ञानं प्रति कारणं, न दृष्टान्तादिवचनम् , आदिपदेनोपनय-निगमनादयो गृह्यन्ते । एतेन व्याप्तिप्रदर्शनपूर्वकं दृष्टान्तवचनोपेतं पक्षधर्मतोपसंहाररूपमवयवद्वयं सौगतैः, पक्ष-हेतु-दृष्टान्तोपनय-निगमनस्वरूपं पञ्चावयवं नैयायिक-वैशेषिकाभ्यामनुमानमाम्नायि तन्निरस्तं वेदितव्यम् ।