________________
३४
प्रमाणनयतत्त्वालोके [सं० २९-३२ अवयवद्वयस्वीकारश्च व्युत्पन्नमतिप्रतिपाद्यापेक्षया द्रष्टव्यः, अतिव्युत्पनमतिप्रतिपाचापेक्षया तु 'धूमोऽत्र विद्यते' इति हेतुप्रयोगमात्रात्मकमेवानुमानं भवति, “मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनय-निगमनान्यपि प्रयोग्यानि" [३-४३] इति वक्ष्यन्ति ॥ २८॥
हेतुप्रयोगस्तथोपपत्त्यन्यथानुपपत्तिभ्यां
द्विमकारः ॥ २९ ॥ 'वह्निसत्त्वे एव धूमसत्त्वम्' इत्याकार कसाध्यसद्भावप्रकारेण हेतो. रुपपत्तिस्तथोपपत्तिः, 'वन्यभावे धूमाभावः' इत्याकारकसाध्याभावप्रकारेण हेतोरनुपपत्तिरन्यथानुपपत्तिः, ताभ्यामन्वय-व्यतिरेकस्वरूपाभ्यां तथोपपत्यन्यथानुपपत्तिभ्यां हेतुप्रयोगो विभेद इत्ययः ॥ २९ ॥ सत्येव साध्ये हेतोरुपपत्तिस्तथोपत्तिः, असति साध्ये
हेतोरनुपपत्तिरेवान्यथानुपपत्तिः ॥ ३०॥ यथा कृशानुमानयं पाकप्रदेशः सत्येव कृशानुमत्वे,
धूमवत्त्वस्योपपत्तेः, असत्यनुपपत्तेर्वा ॥३१॥ असत्यनुपपत्ते:-असति कृशानुमत्वे धूमवत्वस्यानुपपत्तेरित्ययः ॥३१॥ अनयोरन्यतरमयोगेणैव साध्यप्रतिपत्तौ द्वितीय
प्रयोगस्यैकत्रानुपयोगः ॥ ३२ ॥ मयं भावः-यत्र तथोपपत्तिप्रयोगेण सायसिद्धिः संजाता, तत्राग्यथानुपपत्तिप्रयोगस्य नोपयोगः, एवमन्यथाऽनुपपत्तिप्रयोगेण
१. पत्तेरिति क।