SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ सू० ३३-३५] वतीयः परिच्छेदः ३५ साध्यसिद्धौ संजातायां तथोपपत्तिप्रयोगस्य नोपयोग इति ॥ ३२॥ न दृष्टान्तवचनं परमतिपत्तये प्रभवति, तस्यां पक्षहेतु वचनयोरेव व्यापारोपलब्धेः ॥ ३३॥ नेयायिकादयो दृष्टान्तोपनय-निगमनान्यप्यनुमानाङ्गत्वेनाङ्गीकुर्वन्ति, तत्र तैदृष्टान्तवचनं कि परप्रतिपत्त्यर्थ स्वीक्रियते, उत न्याप्तिनिर्णयार्थम् , आहोस्विद् व्याप्तिस्मरणार्थम् ? इति विकल्पत्रयमुद्भाव्य प्रथमं विकल्पं दूषयन्ति-न दृष्टान्तवचन मिति–'पर्वतो वह्निमान् धमवत्वान्यथाऽनुपपत्तेः' इति पक्षहेतुवचनलक्षणावयवद्वयेनैवाविस्मृतसम्बन्यस्य साध्यप्रतिपत्तिसम्भवे दृष्टान्तवचनं निरर्थ कमिति भावः ॥ ३३ ॥ न च हेतोरन्ययाऽनुपपत्तिनिर्णीतये यथोक्ततर्क प्रमाणादेव तदुपपत्तेः ॥ ३४ ॥ द्वितीयविकल्पं दूषयन्ति-न चेति-हेतोासिनिर्णयार्थमपि दृष्टान्तस्य नोपयोगः, तर्कप्रमाणादेव व्यातिनिर्णयोपपत्तेः ॥ ३४॥ नियतैकविशेषस्वभावे च दृष्टान्ते साकल्येन व्याप्तेरयोगवो विपतिपत्तौ तदन्तरापेक्षायामनवस्थिते दुनिवारः समवतारः ॥ ३५॥ अयंभावः-प्रक्षे वह्नि-धूमयोाप्तिनिर्णयार्थ यदि दृष्टान्तस्य महानसस्योपयोगः, तर्हि नियतै कविशेषस्वरूपे दृष्टान्ते महानसे व्यातिनिर्णयः कथं जातः ? इति वक्तव्यम् , अन्येन दृष्टान्तेन चेत्, तत्रापि कथम् ! अन्येन चेत्, अनवस्थादुस्तरा महानदी, तस्मात् तर्कप्रमाणादेव व्याप्तिनिर्णयोपपत्तौ तदर्थ दृष्टान्तवचनं न कर्तव्यमिति ॥ ३५ ॥
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy