SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रमाणनयतत्वालोके [सू० ३६-१९ नाप्यविनाभावस्मृतये, प्रतिपत्रपतिबन्धस्य व्युत्पन्न__ मतेः पक्षहेतुप्रदर्शनेनैव तत्मसिद्धेः ॥३६ ॥ व्याप्तिस्मरणार्थमपि दृष्टान्तवचनं न प्रभवति प्रतिपन्न प्रतिबन्धस्यगृहीतव्याप्तिकस्य व्युत्पन्नमतेः 'पर्वतो वह्निमान् धूमवत्त्वान्यथानुपपत्तेः' इत्याकारकपक्ष-हेतुप्रदर्शनेनैव तत्प्रसिद्धेः- व्याप्तिस्मरणस्य प्रसिद्धः।।३६।। अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावशक्ती च बहिर्व्याप्तेरुद्भावनं व्यर्थम् ॥ ३७॥ __'मत्पुत्रोऽयं बहिर्वक्ति एवंरूपस्वरान्यथानुपपत्तेः' इत्यत्र बहिप्त्यिभावेऽपि हेतोर्गमकत्वदर्शनात् , एवं ‘स श्यामः तत्पुत्रत्वादितरतत्पुत्रवत्' इत्यत्र बहिर्व्याप्तिसद्भावेऽपि गमकत्वस्याऽदर्शनाद् बहितिःदृष्टान्तस्योद्भावनं व्यर्थम् ॥ ३७॥ पक्षीकृत एव विषये साधनस्य साध्येन व्याप्तिरन्त ाप्तिः, अन्यत्र तु बहिर्व्याप्तिः ॥ ३८ ॥ यथा अनेकान्तात्मकं वस्तु, सत्त्वस्य तथैवोपपत्तेरिति, अग्निमानयं देशः, धूमवत्त्वाद्, य एवं स एवं, यथा पाकस्थानमिति च ॥ ३९ ॥ १. °बन्धकस्य क । २. नेदं सूत्रं स्याद्वादरत्नाकरे मुद्रित व्याख्यातं च । ३. तथैवोपपत्तेः......पाकस्थानम् कख । ४. अस्त्यत्र पाठान्तरमादर्शद्वयेऽपि, एवमन्यत्रापि यद् यत् पाठान्तर तत् सर्व प्रस्तुतपुस्तकेऽन्यस्थले दत्तमस्माभिरिति ततो ज्ञेयम् । संशोधकःअनेकान्ती मुनिः ।
SR No.009649
Book TitlePramana Naya Tattvaloka
Original Sutra AuthorN/A
AuthorHimanshuvijay, Purnanadvijay
PublisherAmblipol Jain Upashray
Publication Year
Total Pages177
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy