________________
सू० ४०-४२ ]
तृतीयः परिच्छेदः
'वस्तु अनेकान्तात्मकं सत्त्वस्य तथैवोपपत्तेः' अत्र वस्तुमात्रस्य पक्षत्वाद् दृष्टान्ताभावात् पक्षीकृत एवं विषये साधनस्य - सत्त्वस्य साध्येन-अनेकान्तात्मकेन सह व्याप्तिर्वर्तते, अत इयमन्तर्व्याप्तिशब्देनोच्यते । ' अयं देशोऽग्निमान् धूमवत्त्वाद्, यो यो धूमवान् स स वह्निमान् यथा पाकस्थानम्' अत्र पक्षीकृतविषयाद् देशादन्यत्र पाकस्थाने साधनस्य धूमस्य साध्येन वह्निना सइ व्याप्तिवर्तते, अतो बहिर्व्याप्तिशब्देनोच्यते ॥ ३८-३९॥
"
नोपनय - निगमनयोरपि परप्रतिपत्तौ सामर्थ्य पक्ष हेतुप्रयोगादेव तस्याः सद्भावात् ॥ ४० ॥
न केवलं दृष्टान्तस्य परप्रतिपत्तावसामर्थ्यम्, अपितु उपनय-निगमनयोरपि परप्रतिपत्त सामर्थ्यं नास्ति, पक्षहेतुप्रयोगादेव परप्रतिपत्तेः सद्भावात् ॥
० ॥
३७
समर्थनमेव परं परप्रतिपच्यङ्गमास्तां, तदन्तरेण दृष्टान्तादिप्रयोगेऽपि तदसम्भवात् ॥ ४१ ॥
अयमर्थः - अमिनादिदोषनिरसनपूर्व साध्यसाधनसामर्थ्यप्रदर्शनरूपं हेतोः समर्थनं विना दृष्टान्तादिप्रयोगेऽपि न साध्यसिद्धिर्भवि तुमर्हतीति समर्थनमेव परप्रतिपत्तावङ्गं भवतु किं दृष्टान्तादिप्रदर्शनेन ! ॥ ४१ ॥
व्युत्पन्नानाश्रित्य परार्थानुमानस्वरूपमुक्तं संप्रति मन्दमनाश्रित्य तत् प्रदर्शयन्ति—
1
मन्दमतींस्तु व्युत्पादयितुं दृष्टान्तोपनय-निगमनान्यपि प्रयोज्यानि ॥ ४२ ॥