Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray

View full book text
Previous | Next

Page 124
________________ प्रमाणनयतत्वालोके [ सू० ९-११ बुद्धादिरूपं फलं प्रमाणादभिन्नं, एकप्रमातृतादात्म्याद, अव्यवहित फलवत् ॥ ८ ॥ एकप्रमातृतादात्म्यमुपपादयन्ति -- प्रमाणतया परिणतस्यैवाऽऽत्मनः फलतया परिणतिप्रतीतेः ॥ ९॥ यः प्रमाता पूर्वं प्रमाणतया परिणतः स एव फलतया परिणमति, इत्येकप्रमापेक्षया प्रमाण- फलयोरभेद इति ॥ ९ ॥ यः प्रमिमीते स एवोपादत्ते परित्यजत्युपेक्षते चेति सर्वसंव्यवहारिभिरस्खलितमनुभवात् ॥ १० ॥ यः प्रमाता प्रमाणेन वस्तु निश्चिनोति स एव तद् गृहाति परित्यजति उपेक्षते चेति सर्वैरनुभूयते, न त्वन्यस्य प्रमातुः प्रमाणतया परिणामोऽन्यस्य चोपादानबुद्धयादिलक्षणफलतया इति कस्यापि प्रतीतिरस्तीत्यर्थः ॥ १० ॥ इतरथा स्व-परयोः प्रमाणफलव्यवस्थाविप्लवः प्रसज्येत ॥ ११ ॥ यथेकस्यैव प्रमातुः प्रमाणफलतादात्म्यं नाभ्युपगभ्येत तर्हि 'इमे प्रमाण- फले स्वकीये इमे च परकीये' इति व्यवस्था न स्यात् । अयं भावः -- देवदत्तात्मनि विद्यमानयोः प्रमाण- फलयोर्यथा देवदत्तसकाशाद् भिन्नत्वं तथा जिनदत्तादपि । एवं जिनदत्तात्मनि विद्यमानयोः प्रमाण- फल्योर्यथा जिनदत्ताद् भिन्नत्वं तथा देवदत्तादपि । एवंस्थिते देवदत्तात्मनि विद्यमाने प्रमाणफले जिनदत्तस्य, जिनदत्ताss

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177