Book Title: Pramana Naya Tattvaloka
Author(s): Himanshuvijay, Purnanadvijay
Publisher: Amblipol Jain Upashray
View full book text
________________
सू०१२-४] पछः परिच्छेदः मनि च विद्यमाने प्रमाणफले देवदत्तस्य कुतो न भवेताम् ? भेदस्य उभयत्राविशेषाद्, इति एकप्रमातृतादाम्येन प्रमाण-फलयोरवस्थितिरङ्गीकर्त येति ॥ ११॥
अज्ञाननिवृत्तिस्वरूपेण प्रमाणादभिभेन साक्षात्फलेन
साधनस्याऽनेकान्त इति नाशङ्कनीयम् ॥१२॥ ननु प्रमाण-फलत्वाऽन्यथानुपपत्तेरिति प्रमाण-फलयोर्भेदाऽभेदसाघकत्वेनोपन्यस्तो हेतुः प्रमाणात् सर्वथाऽभिन्ने मज्ञाननिवृत्त्याख्येऽव्यवहितफलेऽपि वर्तते मतो व्यभिचारीति बौद्धैर्नाऽऽरेकणीयम् ॥ १२ ॥
कुतः ? इत्याहुःकयश्चित् तस्यापि प्रमाणाद् भेदेन व्यवस्थानात्
॥१३॥ अज्ञाननिवृत्तिरूपस्य फलस्यापि प्रमाणात् कथञ्चिद्भिन्नत्वेनावस्थानादित्यर्थः ॥ १३ ॥
तदेवोपपादयन्ति-- साध्य-साधनभावेन प्रमाण-फलयोः प्रतीयमानत्वात
॥१४॥ प्रमाणाऽज्ञाननिवृत्त्याख्यफले परस्परं भिद्यते, साध्य-साधनभावन प्रतीयमानत्वात् , ये साध्य-साधनभावेन प्रतीयेते ते परस्परं भिघेते यथाकुठारच्छिदे,इत्यनुमानेन प्रमाणाऽज्ञाननिवृत्त्याख्यफल्योः कथञ्चिद्भिदोऽपि सिध्यतीति भावः ॥ १४ ॥

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177