Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
पार्श्वनाथचरित्रेतत्र चाहत्प्रतिमानामहतां च यदहणम्। स्तुतिश्चाशातनारोधः स्थानकं प्रथमं हि तत् ॥ ५७२ ॥ सिद्धस्थानेषु सिद्धानामुत्सवैश्च नवनवैः । यञ्च सिद्धगुणोच्चारसंस्तवस्तद् द्वितीयकम् ॥ ५७३ ।। विनेयबालकग्लानमुनीनां प्रतिपत्तितः। प्रवचनस्य चौन्नत्याद् वात्सल्याञ्च तृतीयकम् ॥५७४|| प्राञ्जलीभूय वसनाशनौषधादिढोकनम् । श्रीगुरूणां गुरूणां यत् तुर्य तत्स्थानकं स्मृतम् ॥ ५७५ ।। गणान्तर्वासिनां विंशत्पदपर्यायज्यायसाम् । स्थविराणां च या स्थिरोपास्तिस्तत् पञ्चमं मतम् ॥५७६॥ व्यपेक्षयाऽर्थश्रुतयोः स्वतः श्रुतवतां बहु । शुश्रूषया भवेत् षष्ठमन्नवस्त्रादिदानतः ॥५७७॥ अविश्रान्ततःकर्मकर्मठानां तपस्विनाम् । वात्सल्यतः परिचर्याचरणं तच्च सप्तमम् ॥५७८॥ सदैव द्वादशाङ्गारव्ये श्रुते प्रश्नानुचिन्तनैः । ज्ञानोपयोगसूत्रार्थौ तपयोगस्तदष्टमम् ॥५७९॥ शङ्कादिदोषनिमुक्तं स्थैर्यादिगुणभूषणम् । नवमं दर्शनं सम्यक् शमादिलक्षणात्मकम् ॥५८०॥ चतुर्धा शानदर्शनचारित्रपरिचर्यया । दशमं विनयः कर्मक्लेशनाशनिबन्धनम् ॥५८१।। इच्छादिदशधासामाचर्याचरणकर्मणि । परिहारोऽतिचाराणां स्थानमेकादशं स्मृतम् ॥५८२॥ मूलोत्तरगुणेष्वेष्वहिंसामात्रादिसीमसु । उद्यमो निरतिचारो द्वादशं स्थानकं हि तत् ॥५८३।। दुर्ध्यानपरिहारेण यच्छुभध्यानधारणम् । क्षणे लवे मनःप्रीत्यै स्थानकं तत् त्रयोदशम् ।।५८४॥ शरीरमनसोर्बाधारहितं च निरन्तरम् । यत्तपः कर्म शक्त्या तत् स्थानकं स्याश्चतुर्दशम् ॥५८५।। दानं निदानमानन्दश्रियामन्नादि यन्मुनौ।। वाङ्मनोवपुषां शुद्ध्या तत् पश्चदशसंशकम् ॥५८६॥ वैयावृत्त्यविधी प्रौढा प्रौढिभक्तादिभिभृशम् । आचार्यादिदशानां या षोडशं स्थानमीरितम् ॥५८७॥ संघापायापनयनोपायप्रतयाऽनिशम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212