Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 161
________________ पार्श्वनाथचरित्रे अपश्यन् भुवनाधीशं धराधीशोऽतिखिन्नवान् । प्रभुकृतक्रमन्यासोपरिविन्यस्तमस्तकः ॥ १९८ ॥ तस्य खेदापनोदाय नागेन्द्रोऽथ जिनेशितुः । नवहस्तमितां हस्ते प्रतिमां बिभ्रदभ्यगात् ॥ १९९ ॥ साक्षात् प्रभुमिव प्रेक्ष्याप्रतिमां प्रतिमामिमाम् । भूपः प्राप परां प्रीतिं भुवनैश्वर्यभागिव ॥ २००॥ चारुभिश्चान्दनाम्भोभिः कुसुमैश्च सुगन्धिभिः । पूजयित्वा परप्रीत्या ववन्दे प्रतिमां नृपः ॥ २०१ ॥ तथाऽत्र भूभुजा तेन चैत्यं प्रोत्तुङ्गमर्हतः । कारितं यशसां पुञ्जमिव पिण्डितमात्मनः ||२०२॥ अथ सा प्रतिमा तत्र प्रासादे प्रोश्चतोरणे । न्यधायि क्ष्माभुजा तेन साक्षादिव हृदि प्रभुः || २०३ || महाप्रभावा जैनेन्द्री प्रतिमापि ददौ नृणाम् | समाराधयतां स्वान्ताऽभीष्टं कल्पलतेव सा || २०१४ ॥ प्रासादे तत्र हस्तीन्द्रः स समागत्य नित्यशः । विन्यस्तमस्तकः पार्श्वप्रतिमां प्राणमत् सदा ॥ २०५ ॥ तीर्थेऽस्मिन् भक्तिभाक् कुम्भी स मृत्वा व्यन्तरो ऽजनि महातीर्थस्य तस्यैवाधिष्ठायकः प्रभाववान् ||२०६ ॥ आसन्नत्वात् कलिगिरिकुण्डयोरनयोस्तदा । तत्तीर्थमलभल्लोके कलिकुण्डमिति श्रुतम् ॥२०७॥ निरालम्बो नभ इव विहरन् परमेश्वरः । समभ्यगाच्छिवापुर्थ्याः कौशाम्बाख्य वने क्रमात् ॥२०८॥ तत्र सर्वसहः सर्वसहेव त्रिजगद्गुरुः । तस्थौ प्रतिमया ध्यानधुराधाराधुरन्धरः ॥ २०९ ॥ अथो तथा स्थितं नाथं प्रणन्तुं पन्नगप्रभुः । स्मृत्वा पूवोपकारं तं समागात् परिवारवान् ॥ २१०॥ स त्रिः प्रदक्षिणीकृत्य नत्वा च स्वामिनः क्रमौ । पुरस्तात् प्रीतितो नृत्यं विदधे धरणोरगः ॥२११॥ सेवके मयि सत्यस्मिन् स्वामिनोऽस्य तनूपरि । मा भूदुष्णद्युतेरुष्णतरः पातोऽत्र रोचिषाम् ॥ २१२ ॥ इति ध्यात्वा स्वयं छायाकरवत् प्रभुपृष्ठगः । धृतवानहिराट् छत्रं विश्वमूर्धन्य मूर्धनि ॥२९३॥ एवं दिनत्रयं तत्र स्थित्वा स्वाम्यातपत्रभृत् । www.umaragyanbhandar.com १४४ Shree Sudharmaswami Gyanbhandar-Umara, Surat

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212