Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 178
________________ अर्हम् अथ षष्ठः सर्गः । अथान्येधुपुंसदवृन्दवृतो व्रतिपुरन्दरः। पुण्ड्रदेशमलंचक्रे द्वीपान्तरमिवांशुमान् ॥१॥ इतश्चाजनि सौवश्रीहसितस्वःपुरी पुरी। ताम्रलिप्ताभिधा पूर्वदेशो-मुखभूषणम् ॥२॥ तस्यां सागरदत्ताह्वः सार्थवाहसुतोऽभवत् । रोरमूरिव भाति स्म यूनो यस्य पुरः स्मरः ॥३॥ प्रागभवे तु बभूवैष भूदेवोऽथास्य वल्लभा । अभ्यासक्ताऽन्नगं कालकूटमस्यान्यदा ददौ ॥४॥ प्रसर्पता विषेणाशक्षणनास्य द्विजन्मनः । पिहिता चेतनाऽदभ्राभ्रेणेव.शशिनः कला ॥५॥ भग्नसंज्ञस्तया दुष्टचेष्टयाऽक्षेप्यसौ बहिः । हा? रक्ताऽपि विरकाऽपि स्त्री भुजङ्गीव भीषणा ॥६॥ अथैनं पतितं वीक्ष्य कापि वल्लववल्लभा । संमृञ्छितो विषेणैष इत्यऽज्ञासीत् स्वबुद्धितः ॥७॥ जीवातुतुल्ययाऽजीवि तयाऽसावोषधेः क्षणात्। द्विजः स्वस्त्रीचरित्रेणोद्विग्नोऽभूत् तापसस्ततः ॥८॥ विप्रो विपद्य समये तत्रैव श्रेष्ठिभूरभूत्। . दत्ता सागरदत्तेति पितृभ्यामभिधा शिशोः ॥९॥ दिनैः कतिपयैर्वर्धमानोऽसौ सौवमर्भकः । पुरीमासन्नदृष्टां स्वां पश्यन् प्राग् जनुरस्मरत्॥१०॥ हृदि स्मरनसौ सौवप्रियाया दुष्टचेष्टितम् । विरक्तः सर्वथा स्त्रीषु पद्मिनीष्विव चन्द्रमाः ॥११॥ पतिव्रता मृदुस्वान्ता मृत्वा साऽऽभीरभामिनी। पुरे तत्रैव संजज्ञे कस्यापि श्रेष्ठिनः सुता ॥१२॥ अथैषाऽगण्यलावण्यदीर्घिका दीर्घलोचना । दृष्टा सागरदत्तेन प्रेममन्थरया हशा ॥१३॥ तज ज्ञात्वा जनकस्तस्य नामाऽयाचत तत्क्षणे । ददौ तां जनकस्तस्यास्तस्मै सार्थशसूनवे ॥१४॥ सागरस्य परं तस्या दृष्टस्तुष्टिन मानसी। अतः पाणिग्रहे तस्या नादरं विदधे च सः ॥१५॥ भीतः पूर्वप्रियाभीत्या स तस्यां न मनो व्यधात् । सर्पदष्टः पुमान् नूनं रजोरपि बभेति यत् ॥१६॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212