Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 190
________________ पञ्चमः सर्गः। अरे ? दैव ! सदैवाऽसि मे निष्कारणवैरभाग ॥१९८ . यदर्थयाम्यहं सोऽभूद् मातुलोऽपि धनोज्झितः । तद मामेव सदैवायं दैवः पश्यति पृष्ठगः ॥१९९॥ दैवस्य नाऽथवा दोषः कर्ममर्मानुगामिनः। । सम्पदो विपदश्चापि मता हिमरुचेरिव ॥२०॥ किन्त्वथात्रैव तिष्ठामि यावन्नायाति मातुलः । यदध्वाऽसौ नागपुर्या मत्वैवं तत्र सोऽवसत् ॥२०१॥ पञ्चभिः दिवसैः स्तोकलोकसार्थः पथि ब्रजन् । तत्रागाद् धनदत्तोऽपि बन्धुदत्तस्य तस्थुषः ॥२०२॥ तस्मिन्नेव देवकुले विश्रान्तं तं धनं प्रति । बन्धुः स्माह कुतो यूयमायाताः कुत्र यास्यथ ? ॥२०३॥ आयाताः स्मो विशालाया नागपुर्या यियासवः । इत्यूचानं धनं सोऽवक् कः सम्बन्ध्यस्ति तत्र वः ॥२०४॥ विद्यते बन्धुदत्ताह्वस्तत्र भत्वसुरङ्गजः। यामि तं भूभुजा दण्डावशेषधनलिप्सया ॥२०५॥ एतया वार्त्तया बन्धुरुपलक्षितमातुलः। मातुलं स्माह तत्रैव यियासा वर्त्तते च मे ॥२०॥ अप्रकाश्य स्वमात्मानं मित्रमित्यभिधाय च । बन्धुस्तं तद्दिनं तत्र व्यश्रामयद् निजान्तिके ॥२०७॥ अथ प्रभातसमये बन्धुदत्तोऽङ्गचिन्तया । उत्थाय स्वयमेकाकी प्रययौ तटिनीतटे ॥२०८।। तत्र स्वर्णमणीपूर्णां दृष्टा पेटां भुवोऽन्तरे । उच्चखान स तां भूम्या मूर्ती मूत्तिमिव श्रियाम् ॥२०९।। बन्धुस्ताम्रमयी पेटी तामादाय पिधाय च । अभ्यगाद् मातुलं स्वं च नाम प्राकाशयत् ततः ॥२१०॥ अन्यां सर्वां भवद्वार्तामजानं पान्थतः पुरा । अतस्त्वत्सुकृतैः प्राप्तां पेटीमेनां गृहाण भोः ! ॥२११॥ धनेनैतेन राज्ञः स्वकुटुम्बं मोचयाधुना । निशम्येति धनोऽवादीद् काऽसौ दशा तवेदशी ? ॥२१२॥ अत्यन्तनिपतद्वाप्पबिन्दुच्छन्नमुखच्छविः । अभ्यधाद् बन्धुदत्तोऽपि स्वोदन्तं तत्पुरोऽखिलम् ।।२१३॥ पुनः प्राह धनो बन्धुं वत्स ! द्रव्येण भूरिणा । प्रागहं मोचयिष्यामि भिल्लेभ्यो वल्लभा तव ॥२१४॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212