Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
पञ्चमः सर्गः।
१७१ वीक्षापनमुखा वीक्ष्याऽऽययुः स्वस्वामिनोऽन्तिके ॥१६५॥ विना बन्धुं समायातान् वीक्ष्य तान् शबरानथ । इति दध्यो स पल्लीशस्तत्पीडापीडितो भृशम् ॥१६६॥ वियोगविधुरो बन्धुनूनमात्ममृगीदृशः । झम्पापातादिना जोऽभ्यागतः यमवर्त्मनः ॥१६॥ प्रतिज्ञादिवसाद् मासु चतुर्यु गतवत्स्वथ । अचिन्तयबण्डसेनश्चिन्तया चञ्चलाकृतिः ॥१६८॥ प्रसूतायां बन्धुदत्तस्त्रियामथ तदुद्वहम् । निनाय पुरि कौशम्ब्यां विधास्ये स्वं वचस्ततः ॥१६९॥ इति चिन्तातुरे तस्मिंस्तश्चेटिका समाययौ । ब्रुवाणेति विभो ! सूता सुतं सा प्रियदर्शना ॥१७॥ सम्मान्यैनां चण्डसेनश्चण्डसेनाभिधां सुरीम् । गोत्रजां विधिनाऽऽराध्याभिदधे प्राञ्जलिः पुरः ॥१७१॥ चेद् मासं क्षमतस्या मत्स्वसुः साङ्गजन्मनः । पुरुषैर्दशभिर्देवि ! तदा दास्ये बलिं तव ॥१७॥ तस्याः क्रमेण क्षेमेणागादह्रां पञ्चविंशतिः । ततः पल्लोपतिर्बल्युचितानानाययन् नरान् ॥१७३॥ इतःप्रनष्टसर्वस्वो बन्धुदत्तोऽध्वनि स्मरन् । प्रियाविरहजं दुःखं हिन्तालवनमभ्यगात् ॥१७४॥ अनच्छच्छदनच्छायं तत्र सप्तच्छदं मम् । दृष्ट्वाऽजनिष्ट तस्योच्चैः प्रियाविरहवेदना ॥१७॥ प्रिये ! पित्रोवियोगाा विधुरस्य ममाधुना। त्वद्वियोगो हि दग्धस्य क्षारक्षेपोपमोऽभवत् ॥१७६॥ मां विना हि तवाशर्ममर्म भावीति वेम्यहम् । गते हि पद्मिनीबन्धौ पमिनीनां कुतः सुखम् ? ॥१७७३ हा ? कुरङ्गाक्षि ! दुष्प्रापदर्शने । प्रियदर्शने!। क वासस्ते पितुर्धाम्नि क पल्ल्यां भिल्लवेश्मनि ? ॥१७८॥ अथ त्वद्विरहात्ततॊऽहं जीवंस्तिष्ठामि यत्प्रिये ।। त्वन्नामेकमहामन्त्रस्मरणं तत्र कारणम् ॥१७९॥ यावद् बाष्पितनेत्रोऽसौ विलपति मुहुर्मुहुः । याति सप्तच्छदं तावदगाचैकं सरः पुरः ॥१८०॥ तटाकतटनिकटे पर्यटन्तं पुनः पुनः।। स मरालं स्वमराल्या वियुक्तं निरवर्णयत् ॥१८॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212