Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 203
________________ पार्श्वनाथचरित्रे अन्यैरपि जिनैः पादपदमपांशुपवित्रितम् । सम्मेतादि समेति स्म जिनः साधुभिरावृतः॥४१३॥ (अष्टभिः कुलकम् ) केवल्यालयनिःश्रेणिमिव सम्मेतपर्वतम् । तमारुरोहानशनं विधिसुत्रिजगत्पतिः॥४१४॥ तत्र निर्जन्तुभूभागेऽनशनं प्रशमीश्वरः । व्यधात् सार्ध त्रयस्त्रिंशन्निग्रन्थैरेकमासिकम् ॥४१५॥ तदैव विदितस्वाम्यनशनाः कम्पितासनाः । सर्वेऽपि सपरीवारास्तत्राजग्मुर्बिडौजसः ॥४१६॥ वीक्षापत्राः पतबाष्पविन्दुभिः कृतकर्दमाः। तेऽथ नत्वा जगन्नाथं तस्थुः स्थाने यथोचिते ॥४१७॥ शुक्लाष्टम्यां नभोमासे विशाखायां स्थिते विधौ । क्रमेण प्रभुः शैलेशीमधिरोढुमना अभूत्॥४१८।। सूक्ष्मेतरौ वचश्चित्तयोगी योगिपुरन्दरः ।। निरुद्धय निरुणद्धि स्म काययोगं कृशेतरम् ।।४१९॥ ततश्च निरुध्य सूक्ष्मौ यौगौ वाश्चित्तलक्षणौ । रुरोध वपुषः सूक्ष्मं योगं त्रिजगदीश्वरः ॥४२०॥ इति नाथो भवोन्माथकृतेऽनुक्रमतो व्यधात् । सूक्ष्मक्रियाभिधं शुक्लध्यानभेदं तृतीयकम् ॥४२॥ अथोच्छिन्नक्रियं शुक्लध्यानभेदं तुरीयकम् । पञ्चह्नस्वाक्षरोच्चारामितकालमगात् प्रभुः ॥४२२॥ ततो देहत्रयोद्भूतसुखदुःखपरिच्युतः। सनातनाक्षयानन्तज्ञानदर्शनसंयुतः॥४२३॥ पुरातनैरपि त्यको भवोपग्राहिकर्मभिः । अनन्तवीर्यबलर्द्धिसमृद्धो निष्ठितार्थकः ॥४२४॥ एरण्डवीजवद् बन्धाभावादूर्ध्वगतिः क्षणात् । ऋजुमार्गण लोकाग्रमलंचके जगद्गुरुः ॥४२५॥ (त्रिभिर्विशेषकम्) भगवद्वत् त्रयस्त्रिंशदुत्तीर्णभवसागराः। साधवस्तेऽपि सिद्धार्थाः सिद्धिसौधमगुस्तदा ॥४२६॥ स्वामिनिर्वाणकल्याणमाहात्म्यात् क्षणिकं सुखम् । अजनिष्ट नारकाणां नित्यदुःखजुषामपि ॥४२७॥ क्ष्यि सिद्धिगतं पार्श्व पार्श्वपादाब्जषट्पदः। धूतधैर्यगुणो बाढमाचक्रन्द पुरन्दरः ॥४२८॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212