________________
अर्हम्
अथ षष्ठः सर्गः । अथान्येधुपुंसदवृन्दवृतो व्रतिपुरन्दरः। पुण्ड्रदेशमलंचक्रे द्वीपान्तरमिवांशुमान् ॥१॥ इतश्चाजनि सौवश्रीहसितस्वःपुरी पुरी। ताम्रलिप्ताभिधा पूर्वदेशो-मुखभूषणम् ॥२॥ तस्यां सागरदत्ताह्वः सार्थवाहसुतोऽभवत् । रोरमूरिव भाति स्म यूनो यस्य पुरः स्मरः ॥३॥ प्रागभवे तु बभूवैष भूदेवोऽथास्य वल्लभा । अभ्यासक्ताऽन्नगं कालकूटमस्यान्यदा ददौ ॥४॥ प्रसर्पता विषेणाशक्षणनास्य द्विजन्मनः । पिहिता चेतनाऽदभ्राभ्रेणेव.शशिनः कला ॥५॥ भग्नसंज्ञस्तया दुष्टचेष्टयाऽक्षेप्यसौ बहिः । हा? रक्ताऽपि विरकाऽपि स्त्री भुजङ्गीव भीषणा ॥६॥ अथैनं पतितं वीक्ष्य कापि वल्लववल्लभा । संमृञ्छितो विषेणैष इत्यऽज्ञासीत् स्वबुद्धितः ॥७॥ जीवातुतुल्ययाऽजीवि तयाऽसावोषधेः क्षणात्। द्विजः स्वस्त्रीचरित्रेणोद्विग्नोऽभूत् तापसस्ततः ॥८॥ विप्रो विपद्य समये तत्रैव श्रेष्ठिभूरभूत्। . दत्ता सागरदत्तेति पितृभ्यामभिधा शिशोः ॥९॥ दिनैः कतिपयैर्वर्धमानोऽसौ सौवमर्भकः । पुरीमासन्नदृष्टां स्वां पश्यन् प्राग् जनुरस्मरत्॥१०॥ हृदि स्मरनसौ सौवप्रियाया दुष्टचेष्टितम् । विरक्तः सर्वथा स्त्रीषु पद्मिनीष्विव चन्द्रमाः ॥११॥ पतिव्रता मृदुस्वान्ता मृत्वा साऽऽभीरभामिनी। पुरे तत्रैव संजज्ञे कस्यापि श्रेष्ठिनः सुता ॥१२॥ अथैषाऽगण्यलावण्यदीर्घिका दीर्घलोचना । दृष्टा सागरदत्तेन प्रेममन्थरया हशा ॥१३॥ तज ज्ञात्वा जनकस्तस्य नामाऽयाचत तत्क्षणे । ददौ तां जनकस्तस्यास्तस्मै सार्थशसूनवे ॥१४॥ सागरस्य परं तस्या दृष्टस्तुष्टिन मानसी। अतः पाणिग्रहे तस्या नादरं विदधे च सः ॥१५॥ भीतः पूर्वप्रियाभीत्या स तस्यां न मनो व्यधात् । सर्पदष्टः पुमान् नूनं रजोरपि बभेति यत् ॥१६॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com