________________
पाश्वनाथचरित्र
पतव्यतिकरो ज्ञात्वा धीमत्या कन्यया तया । तस्मै प्रेषि लिखित्वैष श्लोकस्तं सोऽप्यवाचयत् ॥१७॥ गुणाढ्यानतिशीला च शुद्धवंशसमुद्भवा । पुण्यैरवाप्यते धाम्नि कान्ता हस्ते धनुर्लता ॥१८॥ सागरोऽपि वाचयित्वा श्लोकमुत्पन्नधीः सुधीः । लिखित्वा प्रेषयामास श्लोकं तस्यै पुनः स्वयम् ॥१९॥ राक्षसी च दुराचारा निम्नगेवातिनिम्नगा। क्रूरदृष्टिभुजङ्गीव रोचते मे न कामिनी ॥२०॥ इमं श्लोकं वाचयित्वा साऽपि प्रत्यग्रधीनिधिः । दध्याविदं कयाऽप्येष पराभूतोऽस्ति योषिता ॥२१॥ तदुद्विग्नतया भीत्या नैवायं मामपीहते । चिन्तयित्वत्यमुं श्लोकं तस्मै प्रेषीत् पुनः कनी ॥२२॥ एकस्या दोषतो नान्या त्याज्या भवति भामिनी। एकशः पयसा दग्धस्त्यजेदन्यत् पयो हि किम् ? ॥२३॥ श्लोकमिमं वाचयित्वा तचातुर्यचमत्कृतः । परिणीय च तां भोगान् बुभुजे स तया समम् ॥२४॥ निषेवमाणो विषयान् विषमेषुरिवापरः। अन्येयुः सागरो लक्ष्मीकाङ्क्षी चिन्तितवानिति ॥२५॥ पमा पाथोनिधेः पुत्री तां ददाति स एव हि । मत्वेति सागरश्चक्रे सागर गमनं तदा ॥२६॥ जलधौ गच्छतस्तस्य भग्नं प्रवहणं पथि। सप्तवारं स्वयं चायुर्बलाज जीवन् विनिर्ययौ ॥२७॥ अद्य जात इवायातो निद्रव्यः सागरो गृहे । अभाग्योऽयमिति प्रोञ्चैहास्यभूरभवत् पुरे ॥२८॥ पौरैः पदे पदे हस्यमानोऽसौ ध्यातवानिति । स एवायं विधिनून वैरं वहति वैरिवत् ।।२९।। सप्तवारं पयोराशौ भग्नः पोतो मभैव हि । तस्करेणेव देवेन तदहं मुषितोऽमुना ॥३०॥ निन्दन् दुर्दैवकात् दैवं सदैवोद्विग्नमानसः । निर्विणो जीवितव्येऽपि निर्ययौ वेश्मतो निशि ॥३१॥ इतस्ततो भ्रमन्त्रेष उपकूपमुपेयिवान् । आकर्षन्तं पयः कूपात् पुमांसं चैकमैक्षत ॥३२॥ सप्तवारमपि कृपाद नागादाकर्षतोऽस्य वाः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com