SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ पार्श्वनाथचरित्रे- . ईशानदिम्गते देवच्छन्दे व्यश्राम्यदीशिता ॥४६०॥ अथो गणमृतां मुख्य आर्यदत्तो गणाधिपः। विदघे भगवत्पादपीठस्थो धर्मदेशनाम् ॥४६॥ तस्मिस्तस्या देशनाया विरते गणभृद्धरे। नत्वा जिनं जनाः सर्वे ययुः स्थान निजं निजम् ॥४६२॥ तत्तीर्थसम्भवः फणी फणाच्छत्रविराजितः। श्यामश्चतुर्भुजः कूर्मवाहनः कुअराननः ॥४६३॥ दधत् सव्यापसव्येषु करेषु नकुलोरगौ। बीजपूरोरगौ चाभूत् पार्वाह्वः पार्श्वभक्तिभार ॥४६॥ (युग्मम् ) तदा तत्तीर्थभूः पद्मावती देव्यभिधानतः । स्वर्णवर्णा कुक्कुटाहिवाहनाऽत्युग्रशासना ॥४६५॥ सव्याभ्यामपसव्याभ्यां हस्ताभ्यां पाशपङ्कजम् । फलाङ्कशे च दधती विभौ भक्ताऽभवद् भृशम् ॥४६६॥ (युग्मम् ) अनुकूलितोऽनुकूलैः पवनैः शकुनैरिव । ततोऽन्यत्र वृतो देवैर्व्यहरद् भगवानथ ॥४६७n वीक्ष्य माहात्म्यमेतस्य भर्नुर्विहरतो भुवि । दुमा अपि नतिं चक्रुः का कथा नरनाकिनाम् ? ॥४६८॥ वादिनामिव जातानि कण्टकानां मुखान्यधः । प्रभु प्रदक्षिणीचक्रुः पक्षिणोऽपि पदे पदे ॥४६९॥ योजनानां शते सांशे भर्तुर्विहरणावनेः। तस्थुर्दुर्भिक्षमारीत्यवृष्टिरोगातिवृष्टयः ॥४७०॥ विमोर्विहारहर्यक्षवेडाक्षुब्धा च तत्क्षणात् । स्वकीयपरचक्रोत्था याति भीतिः करेणुका ॥४७१॥ जघन्यतः प्रभोः पार्थेऽस्थात् कोटिस्त्रिदिवोकसाम् । तादृशां पर्युपास्त्यै यदौत्सुक्यं तादृशां भृशम् ।।३७२॥ अन्वितोऽतिशयैरेतैर्विश्वविस्मयकारिभिः । व्यहरद्भगवान् भूमौ भव्यानुग्रहहेतवे ॥४७३॥ कठस्मयध्वंसवसन्तवीक्षादीक्षाग्रहबानसुसंघवर्णनः । श्रीपार्श्वभर्जुश्चरितेऽत्र पञ्चमः सर्गःसमाप्तो हृदयंगमार्थः॥४७॥ इति श्रोतपागच्छाधिराजभट्टारकसार्वभौमश्रीहीरविजयसूरिश्रीविजयसनसूरिराज्ये समस्तसुविहितावतंसपण्डितकोटीकोटीरहोरपं० श्रीकमलविजयगणिशिष्यभुजिष्यहेमविजययाणविरचिते श्री पार्श्वनाथचरिने पञ्चमः सर्गः समाप्तः ॥५॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy