SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ . पञ्चमः सर्गः। दिव्यरूपसनाथानां नाथः कथयति स्म सः। उत्पातो विगमो ध्रौव्यमित्यमीषां पदत्रयीम् ॥४४४॥ (युग्मम्) तयाशु तदनुसृत्य द्वादशाङ्गीमसूत्रयन् ।। विस्तरेद् वाङ्मयं विशे तैलबिन्दुरिवाम्बुनि ।।४४५॥ दिव्यान् स्थालस्थितान् वासान् वासवरुपढौकितान् । अनुज्येष्ठं गणभृतां मूनि चिक्षेप दक्षराट् ॥४४६।। द्रव्यैर्गुणश्च पर्यायैरनुज्ञामानुयोगिकीम् । गणानुशां च गणभृद्वरेभ्यो भगवानदात् ॥४४७॥ मुनिमूर्धन्यमूर्धानः सुरमूर्धाभिषिक्तकाः । तदा सद्गन्धसम्पूणैश्चूर्णैस्तूर्णमपूर्णयन् ॥४४८॥ धवलानि जगुस्तत्र सुरासुरनरस्त्रियः। नेदुर्दुन्दुभयो व्योम्नि प्रतिध्वानितदिग्मुखाः ॥४४९॥ कोलाहलं प्रकुर्वद्भिरमरैरसुरैर्नरैः । ताण्डवाडम्बरोऽमण्डि तदा तत्र महोत्सवे ।।४५०।। अथैते साधुशार्दूलाः मुकुलीकृतपाणयः । तस्थुः शावा इव स्तन्यं प्रतीच्छन्तो गुरार्गिरम् ॥४५१॥ पुनरासनमासीनस्तत्र चैत्यतरोरधः। विदधे देशनां शिक्षामयी शिष्यपुरः प्रभुः ॥४५२।। लोकतापापनोदाय वर्षति प्रभुवारिदे। घटिकेवाभवत् तूर्ण संपूर्णा तत्र पौरुषी ॥४५३॥ अथ स्थालीस्थितैर्दिव्यैरखण्डैस्तन्दुलैः कृतः। चतुष्प्रस्थ मितः काशीनगरीश्वरकारितः ॥४५४॥ सारैभ्यभव्यः समवसरणं नागरैर्वृतः। प्रोद्गीतधवलः पूर्वद्वारेण प्राविशद् बलिः ॥४५५॥ (युग्मम् ) प्रभुं प्रदक्षिणीकृत्य सोऽक्षेपि पुरतो बलिः । स चान्तराले निपतन्नोऽलायि सुधाशनैः ॥४५६॥ अर्धः समाददे काशिपतिनाऽवनिभागसौ । दायादैरिव जगृहे शेषः शेषजनैः पुनः ॥४५७॥ बलेः प्रभावतो रोगाः क्षीयन्ते पूर्वसम्भवाः । नवाः पुनर्न जायन्ते षण्मासावधि देहिनाम् ॥४५८॥ अथोदग्द्वारमार्गेण निर्ययौ जगदीश्वरः । सुरकोटिवृतः स्वर्णपद्मन्यस्तपदाम्बुजः ॥४५९॥ शालयो रत्नकनकमययोरन्तरस्थिते। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy