Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१४८
पार्श्वनाथचरित्रेइति व्याहृत्य वसुधानाथो नाथमपूजयत् । व्यहरद विभुरन्यत्र मित्रे शत्रौ च तुल्यहम् ॥२६४|| ईश्वरोऽपि हि तत्स्थाने तुझं चैत्यमकारयत् । बिम्बं च पार्श्वनाथस्य न्यधात् तत्र महोत्सवैः ॥२६५॥ कुक्कुटेश्वरमित्याख्यं तत्तीर्थ प्रथितं भुवि । पुरं तदपि विख्यातं कुक्कुटेश्वरमित्यभूत् ॥२६६॥ गजेन्द्र इव शौण्डीरः स्वशरीरेऽपि निर्ममः । मौनवान् मुनिनाथः स व्यचरत् पृथिवीतले ॥२६७॥ सुखे दुःखे च सदृशः क्रमतो विहरन् विभुः। पुरासन्ने ययौ क्वापि तापसानां तपोवने ॥२६८॥ उदयोऽस्तं भवत्येव नित्यतेजस्विनामपि । ज्ञापयन्निति लोकानां तदैवास्तं ययौ रविः ॥२६९|| तदा च हृदि निध्याय विहारासमयं विभुः । कुम्मीवाभ्यगमत् तस्यासन्नं न्यग्रोधपादपम् ॥२७॥ कूपोपकण्ठे न्यग्रोधाधस्ताद् विध्वस्तमन्मथः । तत्पाद इव निष्कम्पस्तस्थौ प्रतिमया प्रभुः ॥२७॥ कजलश्यामलैरन्धकारैरन्धत्वकारिमिः। अमाद्भिरिव निभृतं भृतं भुवनकोटरे ॥२७२।। निशा निशाचरी श्यामाम्बराऽपुण्यजनप्रिया । भयङ्करी समभ्यागात् तदेवोद्धतपद्धतिः ॥२७३।। तारतारा लसश्चित्रा क्षोभयत्यखिलं जनम् । तदा दिव्याम्बरा रेजे युवतीव विभावरी ॥२७४।। गोमायवो रटान्ति स्म पर्यटन्तः पदे पदे । रात्रौ रात्रिचराः सद्यः प्रसूताः पृथुका इव ॥२७५॥ मिथःस्फालितहस्ताग्रव्यग्रीकृतजगज्जनाः । अनृत्यद् मण्डलीभूय भूयस्यो भूतपङ्क्तयः ॥२७६।। इत्यस्यां निशि नासाग्रलीनलोचनकुड्मलः । सिद्धध्यानपरः स्वामी कायोत्सर्गेण तस्थिवात् ॥२७॥ इतश्च कठजीवः स मेघमाल्यऽसुरब्रुवः। स्मृतप्राग्मत्सरोऽपश्यत् पार्श्वनाथं तथा स्थितम् ।।२७८॥ स प्राग्वैरं स्मरन् कोपाटोपपाटललोचनः । आगात् क्षोमयितुं पार्श्वमद्रिं भेतुमिवर्षभः ॥२७९।।
पार्श्वपार्श्वमुपागत्याहत्य पद्धां च भूतलम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212