Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad

View full book text
Previous | Next

Page 170
________________ पञ्चमः सर्गः। १५३ केवलं ससाद ज्ञानं प्रभुः शानिशिरोमणिः ॥३४६॥ (युग्मम्) विधित्सवो विभोर्ज्ञानोत्सवं संकेतिता इव । अभ्येयुः सर्वतः सर्वे वासवाः कम्पितासनाः ॥३४७॥ सोत्साहगतयो हर्षप्रकर्षप्रेरिताशयाः । स्वीयैः स्वीयैः परीवारैः परितः परिवारिताः ॥३४८॥ अन्येऽपि हि सुपर्वाणः स्पर्धयन्तः परस्परम् । आयातास्ते च समवसरणांयोद्यम व्यधुः ॥३४९॥ वैमानिकज्योतिषिकभवनाधिपव्यन्तराः । तत्र चक्रुः सुराः सौवसौवकार्याणि सत्वरम् ॥३५०॥ अथो सुधाशनन्यस्ताम्बुजन्यस्तक्रमाम्बुजः । पूर्वद्वारेण समवसरणं प्राविशत् प्रभुः ॥३५१॥ ततः प्रदक्षिणीकृत्य चैत्यद्वं जगदीश्वरः। गतानर्थाय तीर्थाय नमश्चक्रे क्रमो ह्यसौ ॥३५२॥ कृते जयजयारावे सुरासुरनरेश्वरैः। चिरं जीव चिरंजीवेत्यऽप्सरोभिरुदीरिते ॥३५३॥ ततः प्राग्वदनः सिंहासनं रत्नविनिर्मितम् । अलंचक्रे धर्मचक्री चक्रबन्धुरिवाम्बरम् ॥३५४॥ (युग्मम्) प्रभो रूपानुरूपाणि रूपाणि चापराण्यथ । व्यकुर्वन् व्यन्तरास्त्रीणि प्रभावः प्रभुभूरसौ ॥३५५॥ तिर्यग्नरामरास्तत्र सर्वतः सपरिच्छदाः । पश्यन्तः स्वामिवक्राब्जं तस्थुः स्थाने यथोचिते ॥३५६।। वनपालो निभाल्येति विभोर्वैभवमुत्तमम् । हृष्टः प्रविष्टः स्वपुरीमश्वसेनेशमभ्यगात् ॥३५७॥ मस्तकन्यस्तहस्तोऽयमश्वसेनाय भूभुजे । यथाजातं समवसृतवृत्तान्तं तमब्रवीत् ॥३५८॥ श्रुताऽप्येषाऽवनेनेंतुर्वार्ताऽभूदमृतोपमा । यत्सत्प्रवृत्तेः पुरतः शर्करा कर्करायते ॥३५९॥ अश्वसेनोपि तद्वागभिः प्रीतः पुलकितोऽभवत् । सिक्तोऽम्भोधरधाराभिरिव नीपावनीरुहः ॥३६०॥ तस्मै तुष्टाय तुष्टान्तःकरणो धरणीधवः । ददौ दानं मणिस्वर्णरूपाद्यं पारितोषिकम् ॥३६१॥ विसृज्योद्यानपालं तं तं वृत्तान्तं यथाश्रुतम् । वामायै च प्रभावत्यै भूपोऽभिहितवान् स्वयम् ॥३६२॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212