________________
पञ्चमः सर्गः।
१५३ केवलं ससाद ज्ञानं प्रभुः शानिशिरोमणिः ॥३४६॥ (युग्मम्) विधित्सवो विभोर्ज्ञानोत्सवं संकेतिता इव । अभ्येयुः सर्वतः सर्वे वासवाः कम्पितासनाः ॥३४७॥ सोत्साहगतयो हर्षप्रकर्षप्रेरिताशयाः । स्वीयैः स्वीयैः परीवारैः परितः परिवारिताः ॥३४८॥ अन्येऽपि हि सुपर्वाणः स्पर्धयन्तः परस्परम् । आयातास्ते च समवसरणांयोद्यम व्यधुः ॥३४९॥ वैमानिकज्योतिषिकभवनाधिपव्यन्तराः । तत्र चक्रुः सुराः सौवसौवकार्याणि सत्वरम् ॥३५०॥ अथो सुधाशनन्यस्ताम्बुजन्यस्तक्रमाम्बुजः । पूर्वद्वारेण समवसरणं प्राविशत् प्रभुः ॥३५१॥ ततः प्रदक्षिणीकृत्य चैत्यद्वं जगदीश्वरः। गतानर्थाय तीर्थाय नमश्चक्रे क्रमो ह्यसौ ॥३५२॥ कृते जयजयारावे सुरासुरनरेश्वरैः। चिरं जीव चिरंजीवेत्यऽप्सरोभिरुदीरिते ॥३५३॥ ततः प्राग्वदनः सिंहासनं रत्नविनिर्मितम् । अलंचक्रे धर्मचक्री चक्रबन्धुरिवाम्बरम् ॥३५४॥ (युग्मम्) प्रभो रूपानुरूपाणि रूपाणि चापराण्यथ । व्यकुर्वन् व्यन्तरास्त्रीणि प्रभावः प्रभुभूरसौ ॥३५५॥ तिर्यग्नरामरास्तत्र सर्वतः सपरिच्छदाः । पश्यन्तः स्वामिवक्राब्जं तस्थुः स्थाने यथोचिते ॥३५६।। वनपालो निभाल्येति विभोर्वैभवमुत्तमम् । हृष्टः प्रविष्टः स्वपुरीमश्वसेनेशमभ्यगात् ॥३५७॥ मस्तकन्यस्तहस्तोऽयमश्वसेनाय भूभुजे । यथाजातं समवसृतवृत्तान्तं तमब्रवीत् ॥३५८॥ श्रुताऽप्येषाऽवनेनेंतुर्वार्ताऽभूदमृतोपमा । यत्सत्प्रवृत्तेः पुरतः शर्करा कर्करायते ॥३५९॥ अश्वसेनोपि तद्वागभिः प्रीतः पुलकितोऽभवत् । सिक्तोऽम्भोधरधाराभिरिव नीपावनीरुहः ॥३६०॥ तस्मै तुष्टाय तुष्टान्तःकरणो धरणीधवः । ददौ दानं मणिस्वर्णरूपाद्यं पारितोषिकम् ॥३६१॥ विसृज्योद्यानपालं तं तं वृत्तान्तं यथाश्रुतम् । वामायै च प्रभावत्यै भूपोऽभिहितवान् स्वयम् ॥३६२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com