SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १५२ पार्श्वनाथचरित्रेशत्रुमित्रतृणस्त्रैणमणिरेणुसग्मनाः । अस्ति यद्यपि विवकवत्सलोऽसौ जगद्गुरुः ॥३३०॥ तथाऽप्यस्य जगभर्तुः पर्युपास्तिपरायणात् । ममास्ति भीति गीन्द्राजीवितान्तविधायिनी ॥३३१॥ अतोऽमुत्र परत्रापि हिताय विहताहितम् । अमुमेव श्रये श्रेयःशरणं शरणं विभुम् ॥३३२॥ मत्वैवं मेघमाल्येष संहृताम्भोदसंहतिः । अनन्यशरणः पार्श्वचरणौ शरणं श्रितः ॥३३३॥ स्वकीयागः क्षमयित्वा स्वस्थानं मेघमाल्यऽगात् । सशोऽपि प्रभुं नत्वा ययौ निजनिकेतनम् ॥३३४॥ उपद्धतोऽयं नृदेवो नृदेवाऽसुरशेखरः। सत्यां मयीति खेदेन वार्धिझम्पापरायणा ॥३३५॥ नाथोपसर्गसंसर्ग निवारयितुमक्षमा । पतत्ताराश्रुकणिका क्षपाऽपि क्षयमाययौ ॥३३६॥ (युग्मम्) यस्यां सत्यां विभोर्जाता उपसर्गाः क्व सा निशा। इतीव तच्चपेटायै करविस्तारणोत्सुकः ॥३३७॥ किंशुकशुकास्यकल्पैरनल्पै रोचिषां चयैः । भुवं प्रकुर्वन् काश्मीरनीरकर्दमितामिव ॥३३८॥ उपसर्गप्रसङ्गाग्निसंतप्तध्यानकाञ्चनम्। विवन्दिषुरिवान्तिमुदियादिवाहर्मणिः ॥३३९॥ (त्रिभिर्विशेषकम्) ततः प्रभातसमये रविणा पविते पथि। वायुरिवाऽप्रतिबद्धः प्रभुरप्यचलत् ततः ॥३४०॥ क्रमाद् गत्वा पुरी काशिं काशिनायकनन्दनः। श्रयति स्माश्रमपदोद्यानं सिंह इवाभयः ॥३४१॥ तत्र शुक्लमनाः शुक्लध्यानाध्वाधिगमाध्वगः। धातकीक्ष्मारहाधस्ताद् ध्वस्ताघस्तस्थिवान् विभुः ॥३४२॥ । क्षपकश्रेणिमारूढोऽधिरूढो ध्यानवम॑नि । प्रमुश्चिच्छेद दुर्घातघातिकर्मचतुष्टयीम् ॥३४३॥ परीषहान् सहमानो नृतियगनिर्जरकृतान् । व्रताहाच्चतुरशीतिमह्नां नाथोऽत्यवाहयत् ॥३४४॥ अथो निशीथिनीनाथे विशाखायामुपस्थिते । चैत्रासितचतुर्थ्यां च पूर्वाह्न पूर्ववैभवे ॥३४५॥ कृताष्टमतपा लोकालोकालोकनलोचनम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034574
Book TitleParshwanath Charitra
Original Sutra AuthorN/A
AuthorHemvijay Gani, Velsingh Nyayavyakaran Tirth
PublisherHarsh Parishad
Publication Year1918
Total Pages212
LanguageSanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy