Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
पञ्चमः सर्गः।
१५७ विना तपः पृथग्भावो न भवेज्जीवकर्मणोः । विना कृशानुमकृशं स्वर्णपाषाणयोरिव ॥४११० एकत्वाशुच्यशरणजगदाश्रवसम्वराः। भवोऽनित्यत्वमन्यत्वं बोधिर्धर्मश्च निर्जरा ॥४१२॥ दानशीलतपोधर्मसाफल्यैकनिबन्धनम् । मता द्वादशधेत्याप्तैर्भावना भवनाशकृत् ॥४१३॥ (युग्मम) विना भावं क्रियाकर्म कायक्लेशाय केवलम् । विना जीवं हि कोदण्डदण्डो भाराय भूरये ॥४१४॥ भावस्यैव हि मुख्यत्वमाचख्युर्धर्मकर्मणि । क्रियां कुर्वन्नऽप्यभव्यो नाऽपुनर्भवतां भजेत् ॥४१५॥ जीवध्वंसेऽपि यद् बन्धो न स्यात् प्रशमशालिनाम् । प्रामाण्यं तत्र भावस्य न पुनः कायकर्मणः ॥४१६॥ भावप्रभावतः पापमर्माणि प्रचुराण्यपि । क्षणादेव विलीयन्ते वायोरिव पयोमुचः ॥४१७॥ मानुष्यमुख्यसामग्री समग्राऽपि शरीरिणाम् । चतुर्विधेऽपि धर्मे स्यादसाधारणकारणम् ॥४१८॥ तत्रापि दश दृष्टान्तै जनप्रमुखैः खलु । भवेऽस्मिन् मानुषं जन्म मरौ वारिवद् दुर्लभम् ॥४१९॥ तत्रापि च सदाचारानाचारैकविचारभूः। वार्थों द्वीपमिव भवे आर्यनीवृत् सुदुर्लभः॥४२०॥ तत्रापि धर्माऽधर्मादिविचारचतुरा नृणाम् । छायेव पथि पान्थानां दुर्लभा जातिरुत्तमा ॥४२२॥ धर्मकर्मविनिर्माणेऽलंकर्मीणी शरीरिणाम् । न्यक्षाक्षेऽक्षयता साक्षात् तत्रापि खलु दुर्लभा ॥४२२॥ मानुष्यादिकसम्प्राप्तिसफलीकारकारणम् । तत्राप्यायुः सुदुष्प्रापमन्धकारे प्रदीपवत् ।।४२३॥ स्वयं तरंस्तारयश्च परान् सन्मार्गदर्शकः । दुष्प्रापः कथकः पाथःपती पोत इवाङ्गिनाम् ॥४२४॥ तत्राप्यलभ्यं सिद्धान्तवार्द्धमध्योपतस्थुषाम् । हेयाऽहेयादिवस्तूनां श्रवणं श्रवणामृतम् ॥४२५॥ तत्राप्यनन्यसामान्या श्रद्धा स्यादतिदुष्करा । सैव यद् धूर्वहायेत नितान्तं धर्मकर्मणि ॥४२६॥ तत्रापि खलु दुःसाध्या विरतो रतिरद्भुता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212