Book Title: Parshwanath Charitra
Author(s): Hemvijay Gani, Velsingh Nyayavyakaran Tirth
Publisher: Harsh Parishad
View full book text
________________
१५८
पार्श्वनाथचरित्रेयां विना पूर्वयोगोऽसौ निस्तुषोऽपि तुषायते ॥४२७n साधुश्राद्धाऽविरतानां सम्यक्सम्यक्त्वशालिनाम् । न प्रमत्तैरतो भाव्यं धर्मे शर्ममये जनाः ! ॥४२८॥ एवं कर्णपुटैर्वाचं वाचंयमशिरोमणेः । पपुः सर्वेऽपि पार्षद्या वैणक्वाणमिवैणकाः ॥४२९॥ निःसरन्तो गिरा पूरा प्रेजिरे भगवन्मुखात् । पीयूषे पुष्करावर्त्तप्रवाहा इव पीवराः ॥४३०॥ श्रुत्वैवं देशनां स्वामिमुखाम्भोजसमुद्भवाम् । सर्वसावद्यविरतिर्विरतैः कैश्चिदाददे ॥४३१॥ देशतो विरतिः कैश्चित् कैश्चित् सम्यक्त्वमुत्तमम् । कैश्चिद्भद्रकता भाविभद्राऽमुत्र परत्र च ॥४३२॥ (युग्मम्) रोहणादिव रत्नाली स्वामिनो धर्मपद्धतिः। स्वीयभाग्यानुसारेणाऽऽददे पर्षजनैस्तदा ॥४३३३ भूमीभुजोऽश्वसेनस्य हृदये दर्पणोपमे । धर्मोऽसौ धर्मराट्प्रोक्तः सम्प्राप्तः प्रतिबिम्बताम् ॥४३४॥ राज्यं दत्वाऽश्वसेनोऽथ हस्तिसेनाय सूनवे । मुक्तिसीमन्तिनीदूती दीक्षा संवेगतोऽग्रहीत् ॥४३५॥ वामादेवीप्रभावत्योर्बतदानाद् मुदं व्यधात् । स्वामी सर्वत्र सदृशः किं पुनः स्वपरिच्छदे ? ॥४३६॥ आर्यदत्त आर्यघोषो वशिष्टो ब्रह्मनामकः । सोमश्च श्रीधरो वारिषेणो भद्रयशा जयः॥४३७॥ विजयश्चेति नामानो दशैते पुरुषोत्तमाः। पुरुषाः प्राञ्जलीभूय प्रोचिवांसः प्रभु प्रति ॥४३८५ (युग्मम्) कषायविषयद्वेषकलुषीकृतचेतसः । तारकं त्वां प्रपन्नाः स्मो महाद्रुममिवाध्वगाः ॥४३९।। प्रोद्विग्नाः स्मो जरामृत्युक्लेशकल्लोलसङ्कलात् । भग्नपोता इव भवाम्भोधेभ्रमणतो वयम् ॥४४०॥ महाव्रतमहापोतदानतः किंकरानिमान् । संसाराब्धौ मजतोऽस्मान् प्रभो ! तारय तारय ४४१॥ इत्युक्तः पुरुषप्रष्टरमीभिः परमेश्वरः । ददौ तेभ्यो महानन्दसत्यकारमिव व्रतम् ।।४४२।। चतुर्विधस्य सश्यस्य स्थापना विदधे विभुः। यस्मादेष भवद्भाविभूतानामहतां क्रमः ॥४४३॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212