Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२२४
पार्थाभ्युदयकाव्यं बिभ्यति भयस्था भवन्ति। असभ्यःसभायामसाधुः सभाभीरुरित्यर्थः। मम पुरः ममागे। स्थातुं स्थानाय। कः कियानित्यर्थः । त्वं भवान् । भण ब्रहि । भिक्षो भो मुमुक्षो । “भिक्षुः परिव्राट् " इत्यमरः । किं न जिह्वेषि लज्जां किं न चेर्षसि । “ ही लज्जायां ” सन्नन्ताल्लट् । मदसिवितताखण्डनात् मम खगविस्तृताविधारणात् । सरसकदलीस्तंभगौरः परिपक्को न शुष्कश्च स विवक्षितः तत्रैव पाण्डिमसद्भावात् स चासौ कदलीस्तम्भश्च स इव गौरः । “गौरः शरीरे सिद्धार्थे शुक्लपीते सितेरुणे” इति मालायाम् । भावत्कः भवदीयः । “ भवतष्ठण्छसि" इति ठणू । “दोसिसुस्" इत्यादिना कादेशः । ऊरुः। "सक्थि क्लीबे पुमानूरुः” इत्यमरः । तत्पुरस्तात् तस्य खड्गस्य पुरस्तात् अग्रतः । चलत्वं कम्पनम् । यास्यति एष्यति ॥४॥ यस्मिन्पुंसां परिभवकलङ्काङ्कनं स्याद्विपक्षा
द्वीरालापे सति मदवतो वीरगोष्टीषु वक्रम् । विद्वन्मन्यो भणतु स भवानेव मानोन्नतानां
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्यात् ॥ ५॥ यस्मिन्निति ॥ जलद भो मेघ । यस्मिन् यस्मिन्काले । वीरगोष्टीषु शूरगोष्टीषु । वीरालापे सति वीरकथाभाषणे सति । " स्यादाभाषणमालापः” इत्यमरः । मदवतः गर्वयुतात् । विपक्षात् प्रतिपक्षजनात् । पुंसां पुरुषाणाम् । वकं मुखम् । परिभवकलङ्काङ्कनं तिरस्कारकलङ्कचिह्नम् । स्याद्भवेत् । तस्मिन्काले तदवसरे । सा लब्धनिद्रा लब्धा चासौ निद्रा चेति कर्मधारयः । प्राप्तस्वापा । असुखा अहिता। यदि स्यात् भवेच्चत्तर्हि । मानोन्नतानां मानेन अभिमानेन उन्नतानाम् उत्कृष्टानाम् । “ मानश्चित्तसमुन्नतिः ” इत्यमरः । मध्ये इति शेषः । विद्वन्मन्यः विद्वांसमात्मानंमन्यते इति तथोक्तः । स भवानेव त्वमेव । भणतु ब्रूहीत्यर्थः । भवच्छब्दप्रयोगे प्रथमपुरुषः ५

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292