Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 274
________________ २६२ पार्धाभ्युदयकाव्यं प्रत्युत्कीर्ण इति ॥ भगवन् भो पार्श्वनाथ । भक्तः भाक्तिकजनः । त्वां प्रत्युत्कीर्णः अभ्युदयादिसुखं मम देहीति प्रतिवाक्योत्कीर्णः । यदि च चेत्तर्हि भव्यलोकैकमित्रात् भव्यलोकानां भाक्तिकजनानाम्। एकं मुख्यं मित्रं श्रेयस्सुखं तस्मात् । “लोकस्तु भुवने जने" "एके मुख्यान्यकेवलाः” इत्युभयत्राप्यमरः । त्वत्तः भवत्सकाशात् । अभिमतं वाञ्छितम् । श्रेयःफलं सौख्यफलम् । प्राप्नुयादेव उपलभेदेवेति निश्चयः । तथाहि । कल्पवृक्षः सुरद्रुमः । जगते सुकृतिने लोकाय । फलानि अभीष्टवस्तूनि । प्रत्युक्तैः दिशामीति प्रत्युत्तरैः । फलति किं निष्पादयति किम् । किं तर्हि । सतां सत्पुरुषाणाम् । प्रणयिषु विनयवत्सु जनेषु । ईप्सितार्थक्रियैव अभिमतार्थप्रदानमेव । प्रत्युक्तं हि प्रतिवचनं हि । क्रिया केवलमुत्तरमित्यर्थः । “नीचो वदति न कुरुते न वदति सुजनः करोत्येव"। इति तात्पर्यम् ॥ ६१॥ . सह्रीकस्ते कथमपि पुरो वर्तितुं सङ्घटेऽहं दूराद्वक्तुं निकृतिबहुलः पापकृढेरदग्धः। सौजन्यस्य प्रकटय परां कोटिमात्मन्यसङ्गा देतत्कृत्वा प्रियमनुचितप्रार्थनादात्मनो मे ॥ ६२॥ . सह्रीक इति ॥ निकृतिबहुलः तिरस्कारप्रचुरः। शठत्वभरितो वा । “कुमृतिर्निकृतिः शाठ्यम्" इत्यमरः । पापकृत् पापं करोतीति तथोक्तः। दुष्कर्मास्रवान् । “हस्वस्य तक् पिति कृति" इति तगागमः । वैरदग्धः वैरेण चिरानुबद्धविरोधेन दग्धः सन्तप्तः । पापकृद्वैरदग्ध इत्येकपदं वा । पापकृच्चासौ वैरश्च तेन दग्धः । अहं दैत्यपाशः । सहीकः लज्जासहितः सन् । दूरात् विप्रकृष्टात् । वक्तुं भाषितुम् । ते भवतस्तव । पुरः अग्रतः । वर्तितुं स्थातुम् । कथमिव किमिव । सङ्घटे उद्युक्तोऽस्मि । मे । अनुचितप्रार्थनात् अयोग्ययाचनात् । असङ्गात् निःसङ्गात् । आत्मनः स्वस्य । अप्रियम् उपेक्षात्मकम् ।

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292