Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 278
________________ २६६ पार्थाभ्युदयकाव्यं कर छलम्" इति धनजयः । ध्रुवं निश्चयेन गलति स्म चव्यति स्म ॥६६॥ केवलज्ञानानन्तरमुद्भूतानतिशयानभिधातुमुपक्रमतेअथ सुरभि समीरोन्दोलितैः कल्पवृक्षः समममरनिकायाः पुष्पवृष्टिं वितेनुः । अविरलनिपतद्भिः स्वर्विमानैर्निरुद्धां नवजलदविलिप्ते वीक्ष्यतासौ तदाद्यौः ॥ ६७ ॥ अथेति ॥ अथ अनन्तरे । अमरनिकायाः देवसमूहाः । सुरभिसमीरान्दोलितैः सुरभिणा घ्राणतर्पणयुक्तेन समीरेण वायुना आन्दो लितैः कम्पितैः । कल्पवृक्षैः सुरद्रुमैः । समं साकम् । पुष्पवृष्टिं प्रसूनवर्षणम् । वितेनुः ववर्षः । तदा तदवसरे । अविरलनिपतद्भिः अविरलं निरन्तरं निपतन्त्यवतरन्तीति तथोक्तास्तैः । स्वर्विमानैः स्वयोमयानैः । “स्वर्गे पुरे च लोके स्वः" इत्यमरः । निरुद्धा व्याप्ता। असौ द्यौः। एतन्नभः। “द्योदिवौ द्वे स्त्रियामभ्रम्" इत्यमरः।नवजल. दविलिप्तेव प्रत्यग्रमेघेन लेपितेव । ईक्ष्यत अदृश्यत ।। ६७ ॥ सपदि जलदमुक्तैः सान्द्रगन्धाम्बुपातै मधुपगणविकीर्णैराश्वसत्क्ष्मा क्षतोष्मा । .. वियति मधुरमुच्चैर्दुन्दुभीनां च नादः सुरकरतलगूढास्फालितानां जजृम्भे ॥ ६८ ॥ सपदीति ॥ जलदमुक्तैः वारिवाहेण वृष्टैः । मधुपगणविकीर्णैः मधुपानां भ्रमराणां गणैः निचयैः विकीर्णैः व्याप्तैः । सान्द्रगन्धाम्बुपातैः निरन्तरैः गन्धेन युक्तानामम्बूनां पातैः सेकैः । क्षतोष्मा क्षतः ऊष्मा यस्याः सा शान्तोष्णा । मा भूमिः । "क्ष्मावनिर्मेदिनी मही" इत्यमरः । सपदि शीघ्रम् । आश्वसत् उदजीवत् । सस्यादिशोभावती

Loading...

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292