Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 281
________________ २६९ सटीकम् । श्रीवीरसेनेति ॥ श्रीवीरसेनमुनिपादपयोजभृङ्गः वीरसेनश्चासौ मुनिश्च वीरसेनमुनिः श्रियोपलक्षितस्तथोक्तः पादावेव पयोजे पादपयोजे श्रीवीरसेनमुनेः पादपयोजे तथोक्ते भृङ्ग इव भृङ्गः श्रीवीरसेनमुनिपादपयोजयोः भृङ्गस्तथोक्तः । गरीयान् गुरुतरः । श्रीमान् तपोलक्ष्मीवान् । विनयसेनमुनिः विनयसेननामा यतिः। अभूत् बभू व । तच्चोदितेन तेन सधर्मणा विनयसेनमुनिना चोदितः प्रेरितस्तेन। जिनसेनमुनीश्वरेण मुनीनामीश्वरस्तथोक्तः जिनसेनश्वासौ जिनसेन इति वा मुनीश्वरस्तेन । परिवेष्टितमेघदूतं परिवेष्टितम् आक्रान्तं मेघदूतं तन्नामकाव्यं येन तत्तथोक्तम् । काव्यम् एतत्पाभ्युदयसझं काव्यम् । व्यधायि अकारि ॥ ७१ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचितमेघदूतवेष्टिते पार्श्वभ्युदये तयाख्यायां च सुबोधिकाख्यायां भगवत्कैवल्य वर्णनो नाम चतुर्थः सर्गः ॥ ४ ॥ शुभम् । अत्र काव्यावतरो वितन्यतेश्रीजिनेन्द्रमताब्धीन्दुर्मूलसाम्बरांशुमान् । वीरसेनाभिधानो वाऽवर्त्तिष्टाचार्यपुङ्गवः ॥१॥ तच्छिष्यो जिनसेनार्यो बभूव मुनिनायकः। यत्कृतिर्भुवनेऽद्यापि चन्द्रिका प्रसरायते ॥२॥ बकापुरे जिनेन्द्राझिसरोजेदिन्दिरोपमः। अमोघवर्षनामाऽभून्महाराजो महोदयः॥ ३ ॥ स स्वस्य जिनसेनर्षि विधाय परमं गुरुम् । सद्धर्म द्योतयंस्तस्थौ पितृवत्पालयन्प्रजाः॥४॥

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292