Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 279
________________ सटीकम् । २६७ बभूवेत्यर्थः । वियति आकाशे । सुरकरतलगूढास्फालितानां सुरकरतलैः निर्जरपाणितलै: गूढं गुप्तम् आस्फालितानां ताडितानाम् दुंदुभीनां भेरीणां " भेरीं स्त्रीं दुंदुभिः पुमान् । ” इत्यमरः । नादश्च निनदोऽपि । मधुरं श्रुतिसुखं यथा तथा ॥ उच्चैरधिकं । जजूंभे जृंभति स्म ॥ ६८ ॥ इति विदितमहर्द्धि धर्मसाम्राज्यमिन्द्रा जिनमवनतिभाजो भेजिरे नाकभाजाम् । शिथिलितवनवासाः प्राक्तनीं प्रोज्झ्य वृत्तिं शरणमुपययुस्तं तापसा भक्तिनम्राः ॥ ६९ ॥ इतीति ।। कथितोपलक्षणात् चतुस्त्रिंशदतिशयैः । विदितमहर्द्धि विदिता प्रतीता महती ऋद्धिः सम्पदस्य तम् । धर्मसाम्राज्यं संसारसमुद्रे मग्नान् जन्तून् उद्धृत्य उत्तममोक्षसुखे धरतीति स्थापयतीति धर्मस्तस्यसाम्राज्यं सम्राडूभावो यस्य तम् । जिनं पार्श्वतीर्थेश्वरम् । नाकभाजां नाकं स्वर्ग भजन्तीति नाकभाजस्तेषाममराणाम् । इन्द्रा वर्याः । अवनतिभाजः अवनतिं प्रणमतं भजन्तीति तथोक्ताः सन्तः । भेजिरे सिषेविरे । तापसाः जटिलादयः कुलिङ्गिनः । प्राक्तनीं प्राग्जाताम् । वृत्तिम् आचरणम् । प्रोज्झ्य विहाय । शिथिलवनवासाः विलिष्टविपिनविलयाः । भक्तिनम्राः भक्त्या नमनशीलाः । तं तीर्थेशिनम् । शरणं रक्षणम् । उपययुः श्रयंति स्म । जटिलादय: कुतापसाः निजकायक्लेशे निष्फलत्वं निश्चिन्वन्तः । तपोमहिना प्राप्तोदयं पार्श्वतीर्थङ्करं तत्तपोलब्धुकामाः शरणं ययुरिति भावः । तदुक्तं समन्तभद्रस्वामिभिः । “वनौकसः स्वश्रमवन्ध्यबुद्धयः शमोपदेशं शरणं प्रपेदिरे । ससत्यविद्यातपसां प्रणायकः समप्रधीरुप्रकुलाम्बरांशुमान् ।। ६९ ।।

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292