Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 277
________________ सटीकम् । .. २६५ यख तत् तथोकम् । “खो ज्ञातावात्मनि स्वं विष्वल्पीये खोऽस्त्रियां धने” इत्यमरः । दुष्कृतं च पापमपि । उपसर्जितमिति शेषः । "अहो दुस्तिदुष्कृतम्" इत्यमरः । मिथ्या असत् अभावरूपमित्यर्थः। भवतु अस्तु। जिन भो विजयिन् । त्रयोविंशतितमतीर्थकरपरमदेव । सखे भो मित्र । पार्श्व भी पार्श्वजिन । भच्या गुणानुरागेण । पादौ चरणाम्भोरुहे। विनमतःविनमतीति विनमस्तस्य नमस्कुर्वतः नमस्यतो वा । मे मम । तत्प्रसादात् तयोः पादयोः प्रसादात् प्रसन्नत्वात् । "प्रसादस्तु प्रसन्नता" इत्यमरः । एवम् इत्थम् । विद्युता विदो बोधस्य । “विद्भाने ज्ञातरि त्रिषु" इत्यमरः । 'द्युत् दीप्तौ' किबन्तः। तया सम्यग्ज्ञानेनेत्यर्थः । विप्रयोगः विश्लेषः । क्षणमपि अल्पकालमपि । मा भूत् मा जनि ॥६५॥ पादादिवेष्टितानि समाप्तानि ॥ इतः कतिपयानि चूलिकापद्यान्याहअनुनयति सतीत्थं भक्तिनश्रेण मूर्धा कमठदनुजनाथे नागराजन्यसाक्षात् । ध्रुवमउशयतप्ताद्वैरबन्धश्चिरात्तः स्मगलति निजचित्तात्सन्तताश्रुच्छलेन ॥ ६६ ॥ अनुनयतीति ॥ नागराजन्यसाक्षात् नागानां राजानः उरगेन्द्राः तेषामपत्यानि नागराजन्याः। “जातौ राज्ञः" इति यः । “येऽनोऽट्ये" इति इत्यनो लुक्।तेषां नागकुमाराणां । साक्षात् प्रत्यक्षतः । “मूर्धाभिषिक्तो राजन्यः ।' 'साक्षात्प्रत्यक्षतुल्ययोः” इत्यमरः। कमठदनुजनाथे कमठचरासुरनायके । भक्तिनप्रेण भक्त्या नमनशीलेन । इत्थम् अनेन प्रकारेण । अनुनयति सति अनुनयतीत्यनुनयन् तस्मिन् सति प्रणामादिविनयशीले सति । अनुशयतप्तात् पश्चात्तापेन सन्तप्तात् । निजचित्तात् स्वहृदयात् । चिरात्तः चिरात्प्राप्तः । वैरबन्धः विरोधसम्बन्धः । सन्तताश्रुच्छलेन प्रवृद्धवाष्पाम्बुव्याजेन । “पदं व्यति

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292