Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 280
________________ २६८ पार्धाभ्युदयकाव्यं अथ भगवानाचार्यः स्वाभिप्रायप्रकाशपुरःसरं कृतिमुपसंहरन् मालाशिषमाहइति विरचितमेतत्काव्यमावेष्ट्य मेघं बहुगुणमपदोषं कालिदासस्य काव्यम् । मलिनितपरकाव्यं तिष्ठतादाशशाङ्क भुवनमवतु देवस्सर्वदाऽमोघवर्षः ॥ ७० ॥ इतीति ॥ कालिदासस्य कालिदासनाम्नः कवेः । मेघं काव्यं मेघदूताह्वयं प्रबन्धम् । आवेष्ट्य वेष्टयित्वा । इति एवम् । विरचितं विहितम् । बहुगुणं बहवो माधुर्यादयः गुणा यस्मिन् तत् । अपदोषम् अपगता अलक्षणादयो दोषा यस्मात्तत् । एतत्काव्यं पार्धाभ्युदयाभिधानं काव्यम् । आशशाङ्कम् आचन्द्रावधि नित्यमित्यर्थः। मलिनितपरकाव्यं मलिनितं कलङ्कितं परकाव्यं मेघसंदेशो यथा तथा । तिष्ठतात् निवसतु । अमोघवर्षः काव्यकर्तुः प्रियशिष्यः बंकापुराधिपः । पक्षे अमोघसफलं वर्षे वृष्टिः यस्य सः । देवः प्रभुः । पक्षे मेघः । “देवो राज्ञि सुरेम्बुदे" इति नानार्थरत्नमालायाम् । भुवनं जगत् । सर्वदा सर्वस्मिन् काले। अवतु पातु “अव रक्षणे" लोट्॥७॥ एतत्काव्यप्रभवमेव पुनः सप्रपञ्चमाहश्रीवीरसेनमुनिपादपयोजभृङ्गः श्रीमानभूद्विनयसेनमुनिर्गरीयान् । तच्चोदितेन जिनसेनमुनीश्वरेण काव्यं व्यधायि परिवेष्टितमेघदूतम् ॥ ७१ ॥ इत्यमोघवर्षपरमेश्वरपरमगुरुश्रीजिनसेनाचार्यविरचित. मेघदूतवेष्टितवेष्टिते पार्थ्याभ्युदये भगवत्कैवल्य वर्णनो नाम चतुर्थः सर्गः ॥४॥

Loading...

Page Navigation
1 ... 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292