Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 282
________________ २७० पार्धाभ्युदयकाव्यं कालिदासाहयः कश्चित्कविः कृत्वा महौजसा। मेघदूताभिधं काव्यं श्रावयन्गणशो नृपान् ॥ ५ ॥ अमोघवर्षराजस्य सभामेत्य मदोद्धरः। विदुषोऽवगणय्यैष प्रभुमश्रावयत्कृतिम् ॥ ६॥ तदा विनयसेनस्य सतीर्थ्यस्योपरोधतः। तद्विद्याहंकृतिच्युत्यै सन्मार्गोद्दीप्तये परम् ॥ ७ ॥ जिनसेनमुनीशानस्त्रविद्याधीश्वराग्रणी। विंशत्यग्रशतग्रन्थप्रबन्धश्रुतिमात्रतः ॥८॥ एकसन्धित्वतस्सर्व गृहीत्वा पद्यमर्थतः। भूभृद्विद्वत्सभामध्ये प्रोचे परिहसन्निति ॥९॥ पुरातनकृतिस्तेयात्काव्यं रम्यमभूदिदम् । तच्छ्रुत्वाऽसोऽब्रवीद्रुष्टः पठतात्कृतिरस्ति चेत् ॥ १० ॥ पुरान्तरे सुदूरेऽस्ति वासराष्टकमात्रतः। आनाय्य वाचयिष्यामीत्यवोचद्यमिकुञ्जरः ॥ ११ ॥ इत्येतदवलोक्याथ सभापतिपुरोगमाः। तथैवास्त्विति माध्यस्थ्यात्समयं चक्रिरे मिथः ॥ १२ ॥ श्रीमत्पाहिंदीशस्य कथामाश्रित्य सोऽतनोत् । श्रीपार्धाभ्युदयं काव्यं तत्पादार्धादिवेष्टितम् ॥ १३ ॥ सङ्केतदिवसे काव्यं वाचयित्वा स संसदि । तदुदन्तमुदीर्याथ कालिदासममानयत् ॥ १४ ॥ श्रीमद्धेलगुलविन्ध्याद्रिप्रोल्लसद्दोर्बलीशिनः । श्रीपादाम्बुजमूलस्थः पण्डिताचार्ययोगिराट् ॥ १५ ॥

Loading...

Page Navigation
1 ... 280 281 282 283 284 285 286 287 288 289 290 291 292