Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२६४
पार्वाभ्युदयकाव्यं इत्थकारं कमठदनुजः स्वापकारं प्रमार्जन
भूयः माह प्रकटितमहाभोगभोगीन्द्रगूढः । लोकाहादी नव इव घनो देव धर्माम्बु वर्षन्नि___ष्टान्देशान्विचर जलदप्रावृषा सम्भृतश्रीः ॥ ६४ ॥
इत्थंकारमिति ॥ इत्थंकारम् इत्थमेव इत्थकारम् । “वर्णात्कारः" इति स्वार्थे कारत्यः । अनेन प्रकारेण । कमठदनुजः कमठचरासुरः। स्वापकारं स्खेनकृतापकृतिम् । प्रमार्जन् क्षालयन् । भूयः पुनः । आह स्म ब्रवीति स्म "ब्रुवस्तिप्पञ्च" इत्यादिना णशूप्रत्ययः । आहादेशश्च । देव भो सर्वज्ञ । जलद हे सद्धर्मामृताम्भोद । प्रावृषा वर्षाभिः । “त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः' इत्यमरः । सम्भृतश्रीः प्राप्तशोभः । नवः नवीनः । घन इव मेघो यद्वत् तद्वत् । प्रकटितमहाभोगभोगीन्द्रगूढः प्रकाशितो महाभोगो नागशरीरं यस्य तथोक्तः स चासौ भोगीन्द्रश्च तेन गूढः संवृतः । लोकालादी जगत्सन्तोषकारी। धर्माम्बु धर्मामृतम् । वर्षन् सिञ्चन् । इष्टान् समीहितान् । देशान् जनपदान् । विधर विहर । श्रीविहारोद्यतो भवेत्यर्थः । अत्र भोपीन्द्रगूढत्वेन प्रावृजलदोपमा धर्माम्बुवर्षितेन जलदसम्बुद्धिश्च निश्चीयते । लोकाहादित्वम् इष्टदेशविहारश्च उभयत्र समावेव ॥६४॥ यत्त्वन्मौढ्याद्बहुविलसितं न्यायमुल्लङ्गय वाचां
तन्मे मिथ्या भवतु च मुने दुष्कृतं निन्दितस्वम् । भत्तया पादौ जिन विनमतः पार्श्वमेतत्प्रसादात् ___ मा भूदेवं क्षणमपि सखे विद्युता विप्रयोगः ॥६५॥५५॥५२ यदिति ॥ तत् तस्मात् कारणात् । मुने भो सर्वज्ञ । मौढथात् अज्ञानात् । न्यायं नयनमार्गम् । उल्लङ्घय मे मम । वाचां वचसां यत् बहु विलसितं बहुलं विहितम् । तत् निन्दितस्वं निन्दित खो

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292