Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 273
________________ सटीकम् । २६१ समर्थयामि हि । किं तार्ह । प्रत्युत्तया भावेऽपि निश्चिनोम्येवेति भावः । तस्माद्धेतोः अहो धैर्यमिति । आश्चर्य धीरत्वमिति । आलपन्ती ब्रुवन्ती । दिव्यं दिवि भवम् । आतपवारणं व्यरचयत् असूजत् ॥ ५९॥ तच्छायायां समधिकरुचिं देवमुत्पन्नबोधं बद्धास्थानं शरणमकृतत्यक्तवैरः स दैत्यः। श्रेयोऽस्मभ्यं समभिलषितं वारिवाहो यथा त्वं निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः ॥ ६०॥ तदिति ॥ तच्छायायां तयोर्नागेन्द्रफणातच्छत्रयोः छायायामनातपे । समधिकरुचिं समधिका प्रवृद्धा रुचिः कान्तिर्यस्य तम् । उत्पन्नबोधं सजातकेवलज्ञानम् । अनेन तदुपसर्गावसर एव नागेन्द्रपद्मावतीभ्यां फणावलिच्छत्रद्वयं विरचितमिति पुराणार्थः सूच्यते । बद्धास्थानं बद्धं शक्राधिष्ठेन धनदेन विरचितम् आस्थानं समवसरणं यस्य तं देवं पार्श्वतीर्थनाथम् । स दैत्यः कमठचरोऽसुरः। त्यक्तवैरः मुक्तविरोधः सन् । शरणं रक्षितारम् । “शरणं गृहरक्षित्रोः" इत्यमरः । अकृत अकरोत् । 'डुकृञ् करणे' लुङि तङ् । वारिवाहः मेघः।याचितः प्रार्थितःसन् । निश्शब्दोऽपि निर्जितोऽपि । चातकेभ्यः पक्षिविशेषेभ्यः । अभिलषितं वाञ्छितम् । जलम् उदकम् । यथा यद्वत् प्रदिशति तद्वदित्यर्थः । त्वं तीर्थनाथो भवान् । अस्मभ्यं नः । श्रेयः अभ्युदयनिःश्रेयससम्पत्तिम् । प्रदिशसि प्रदाता भवसि। इह परत्र जन्मनि सुखदाता भवसीति भावः ॥ ६० ॥ प्रत्युत्कीर्णो यदि च भगवन्भव्यलोकैकमित्रात् त्त्वत्तः श्रेयः फलमभिमतं प्राप्नुयादेव भक्तः। प्रत्युक्तैः किं फलति जगते कल्पवृक्षः फलानि प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥६१॥५४॥५१॥

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292