Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२५९
सटीकम् । कान्तासंसर्गा मा भूवन् । निखिलश्रेयस्करी त्वद्भक्तिरेव भूयादिति प्रार्थना ॥५६॥ भूयो याचे सुरनुत मुने त्वामुपारूढभक्तौ
दैत्ये चास्मिन्प्रणयमधुरां देहि दृष्टिं प्रसीद । चित्तोद्योगैरनुशयकृतैश्चास्य गात्रात्प्रपित्सु
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेदम् ॥५७॥५३॥५० भूय इति॥सुरनुत भो देवस्तुत।मुने मन्यते केवलज्ञानेन लोकालोकस्वरूपमिति मुनिः तत्सम्बोधनं हे योगीन्द्र । त्वां भवन्तम् । भूयः पुनः । याचे प्रार्थयामि । उपारूढभक्तौ सम्प्राप्तभजने शरणं गते इत्यर्थः । अस्मिन् दैत्येच एतदसुरेऽपि । प्रणयमधुरां प्रीतिकोमलाम् । दृष्टिं दर्शनम् । देहि देयाः । प्रसीद प्रसन्नो भव । अनुशय कृतैः पश्चात्तापविहितैः । चित्तोद्योगैः चित्तोद्वेगैरिति वा पाठः । चित्तोद्वेगैः निजापराधस्मरणजनितमनोभयैः । अस्य दैत्यस्य । गात्रात् शरीरात् । प्रपित्सु प्रपतितुमिच्छु प्रपित्सु प्रयियासु । प्रातः कुन्दप्रसवशिथिलं प्रभातकुन्दसुममिव शिथिलं दुर्लभम् । इदं जीवितम् एतज्जीवनम् । धारय स्थापय । निजापराधस्मरणानुशयात् पापभीतेश्च दैत्यस्य गात्रान्निर्यज्जीवितं प्रसन्नदृष्ट्या समाश्वास्य पालयेति भावः ॥ ५७ ॥ स्तुत्यन्तेऽसौ व्यरचयदिव च्छत्रमुच्चैः फणालिं
भर्भक्त्या दधदधिशिरः स्वां वितत्य प्रमोदात् । व्यात्तैर्वर्भुवमिति मुनि वक्तुकामस्तदानीं
कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे ॥ ५८ ॥ स्तुत्यन्त इति ॥ स्तुत्यन्ते स्तोत्रावसाने । तदानीं तत्समये । असौ नागेन्द्रः । सौम्य भो मनोहराङ्ग । “सौम्यं तु सुन्दरे सोमदैवते"

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292