Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 269
________________ सटीकम् । २५७ संक्षेपाञ्च स्तुतिमुरमराट् कर्तुमारब्ध भर्तुः श्रेयस्सूते भवति भगवन्भक्तिरल्पाप्यनल्पम् । श्रेयस्कामा वयमत इतो भोगिनी नोऽनुकूला माश्वास्यैनां प्रथमविरहे शोकदष्टां सखीं ते ॥५४॥ संक्षेपादिति ॥ उरगराद् नागराजः । भर्तुः तीर्थेशस्य । स्तुति च स्तोत्रमपि । “ स्तवः स्तोत्रं स्तुतिर्नुतिः ” इत्यमरः । संक्षेपात् समासात् । कर्तु करणाय । आरब्ध उपचक्रमे । भगवन् भो स्वामिन् । भवति त्वयि । भक्तिः गुणानुरागः । अल्पापि अल्पीयस्यपि। अनल्पं महत् । श्रेयः भद्रम् । सूते विदधाति । अतः अस्मात्कारणात् । श्रेयस्कामाः श्रेयोभिलाषिणः । वयं भाक्तिकाः । ते तव । प्रथमविरहे आद्यविप्रलम्भे । शोकदष्टां दुःखाक्रान्ताम् । प्रथमविरहोदनशोकमिति वा पाठः । प्रथमविरहादुद्ग्रः उन्नतः शोको यस्यास्ताम् । एनां सखीम् त्वद्भक्तिप्रियाम् । आश्वास्य उज्जीव्य । नः अस्माकम् । अनुकूलाम् अनुरूपाम् । भोगिनीं भोगवतीं नागस्त्रीम् । प्राप्ता इति भावः ॥ ५४॥ तमेवार्थ स्पष्टयतिसैषा सेवां त्वयि विदधति श्रेयसी मे दुरापं ___ यन्माहात्म्यात्पदमधिगतं कान्तयाऽमा मयेदम् । यस्माच्चैनं तदनुचरणे नाहमुज्झन्विहारं - तस्मादद्रिस्त्रिनयनवृषोखातकूटान्निवृत्तः ॥ ५५ ॥ सेति ॥ यन्माहात्म्यात् यस्याः भक्तेः सामर्थ्यात्। कान्तयामा वनितया सह । “ अमा सह समीपे च" इत्यमरः । मया फणीशेन । दुरापं दुर्दुःखेन आप्यत इति दुरापं प्राप्नुमशक्यम् । इदं पदम् एत नागेन्द्रपदम्। “पदं व्यवसितत्राणस्थानलक्ष्माझिवस्तुषु” इत्यमरः । १७

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292