Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२५६
पार्थाभ्युदयकाव्यं धीकृत्यैनं मुहुरथ सजूकृत्य तं सोऽहिराजो
भच्या भर्तुश्चरणयुगुले प्राणमत्स्नेहनिम्नः । स्नेहानाहुः किमपि विरहे हासिनस्तेप्यभोगा
दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥५३॥ ॥५२॥४९ धीकृत्येति ॥ अथ अनन्तरे । सोऽहिराजः नागेन्द्रः । तम् एनं दैत्यम् । मुहुः पुनःपुनः । धीकृत्य स्थिरीकृत्य । धिकृत्येति पाठे। स नागेन्द्रः । एनं दैत्यम् । मुहुः पुनःपुनः । धिकृत्य तदपराधो. द्भावनेन निर्भत्स्य । अथ तमसुरम् । सजूकृत्य सम्बन्धीकृत्य । भत्तया गुणानुरागेण । भर्तुः अर्हत्स्वामिनः । चरणयुगुले पादारविन्दद्वये । स्नेहनिघ्नः स्नेहाधीनः । “ अधीनो निन्न आयत्तः" इत्यमरः । प्राणमत् प्रणति स्म । अत्र स्नेहनिम्न इत्यनेन नागेन्द्रपद्मावत्योः प्राग्भवे दह्यमानकाष्ठान्तर्गतस्य सर्पयुगुलस्य पार्श्वनाथेन कृतोपकारो व्यज्यते । न च दीर्घकालविप्रकर्षात् पूर्वस्नेह निवृत्तिशङ्केत्याह- स्नेहानिति । किमपि किं वा निमित्तम् । अन्योन्यविप्रकर्षे सति । ह्वासिनः ध्वंसिनः नश्वरानित्यर्थः । स्नेहान् प्रेम्णः । आहुः ब्रुवन्ति । तत्तथा न भवतीत्यभिप्रायः । तेऽपि तेऽपि स्नेहाः । अभोगात् विरहभोगात् हेतोः । प्रसज्यप्रतिषेधे नसमास इष्यते । इष्टे समीहिते वस्तुनि । ये उपचितरसाः उपचितो रसः स्वादो येषां ते तथोक्ताः प्रवृद्धतृष्णास्सवन्त इत्यर्थः । “रसो गन्धरसास्वादे तिक्तादौ विषरागयोः” इति विश्वः । प्रेमराशी भवति स्नेहाऽतिशयी भवति । वियोगसहिष्णुत्वमापाद्यन्ते इत्यर्थः । स्नेहप्रेम्णोरवस्थाभेदाढ़ेदः । तदुक्तम् “ आलोके नाभिलाषो रागस्नेही ततः प्रेम । परिशृङ्गारयोगवियोगविप्रलम्भाश्च ” इति । एतदेव स्फुटीकृतं रसाकरे-"प्रेमादिदृक्षोरम्येषु तच्चिन्ताऽभिलाषः तत्सङ्गबुद्धिः स्यात्स्नेहः तत्प्रवणक्रियाः तद्वियोगासहं प्रेम अतीव तत्सहवर्तनं शृङ्गारः तत्समक्रीडासंयोगः सप्तधा क्रमः" इति ॥ ५३॥
HEALTH

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292