Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 272
________________ २६० पार्श्वाभ्युदयकाव्यं 1 इत्यमरः । मे मम । त्वया भवता सह । बन्धुकृत्यं बान्धवकार्यम् । इदम् एतत् । व्यवसितम् निश्चितम् । कच्चित् । "कञ्चित्कामप्रवेदने" इत्यमरः । इति एवं । व्यात्तैः विदारितैः । वत्रैः मुखैः । मुनिं पार्श्व - नाथं प्रति । प्रमोदात् प्रहर्षात् । ध्रुवं निश्चयेन । वक्तुकामः भाषितुमिच्छुस्सन् । स्वां स्वकीयाम् । फणालिं फणानामावलिम् । " स्फटायां तु फणा द्वयोः " " वीध्यालिरावलिः पङ्किः" इत्यमरः । वितत्य विस्तृत्य । भक्त्या अनुरागेण । भर्त्तुः तीर्थनाथस्य । अधिशिरः शिरोऽधिकृत्याधिशिरः तस्मिन् । " शब्द प्रथा - " इत्यव्ययीभावः । दधत् धरन् । उच्चैः महत् । छत्रमिव आतपत्रमिव । व्यरचयत् विरराज । कमठकृतोपसर्गव्यपोहनाय नागेन्द्रः स्वविक्रियया भुजगफणालिं तन्मस्तकस्योपरि विततानेति भावः ।। ५८ ।। इतः पादवेष्टितान्येव - देवी चास्य प्रचलदलका लोलनेत्रेन्दुवक्रा दिव्यं छत्रं व्यरचयदहो धैर्यमित्यालपन्ती । दैत्यस्याद्रिर्यदभिदलनं शक्तियोगेऽपि कर्त्तु प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि ॥ ५९ ॥ देवीति ।। प्रचलदलका प्रचलन्तः अलकाचूर्णकुन्तलाः यस्याः सा तथोक्ता । लोलनेत्रा लोले चञ्चले नेत्रे यस्याः सा । “लोलश्वलसतृष्णयोः" इत्यमरः । इन्दुवा इन्दुरिव वक्रं यस्याः सा इन्दुवक्रा । अस्य नागेन्द्रस्य । देवी च कान्ताऽपि । यत् यस्मात् । दैत्यस्य असुरस्य । अद्रेः पर्वतस्य । तेन पातितस्येति भावः । अभिदलनं विदारणम् । कर्तुं विधानाय । शक्तियोगेऽपि सामर्थ्य सम्भवेऽपि । प्रत्यादेशात् प्रतिवचनात् । करिष्यामीति प्रतिभाषणादित्यर्थः । “ उक्तिराभाषणं वाक्यमादेशो वचनं वचः" इति शब्दार्णवे । भवतः अनन्तशक्तिमतस्तव । धीरतां धीरत्वम् । न कल्पयामि खलु न

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292