Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 270
________________ २५८ पार्श्वभ्युदयकाव्यं अधिगतं प्राप्तम् । यस्माच कारणात् । अहम् अहीशः । तदनुचरणेन तस्याः भक्तेरनुकूलाचरणेन । एनं प्रकृतम् । विहारं लीलाविहरणम् । उज्झन् त्यजन् । त्रिनयनवृषोत्खातकूटात् त्रिनयनस्य त्रिनेत्रदिगीशस्य वृषेण वृषभेन “सुकृते वृषभे वृषः' इत्यमरः । उत्खाता अवतारिताः कूटाः शिखराणि यस्य तस्मात् । “कूटोऽस्त्री शिखरं शृङ्गम्" इत्यमरः । तस्मादद्रेः कैलासात् । निवृत्तः व्यावृत्तोस्मि । त्वद्भक्त्यैव प्रकृतं विहारं त्यक्त्वा निवृत्त इत्यर्थः । सैषा त्वद्भक्तिः । मे मम । श्रेयसे सुखाय । त्वयि जिनेन्द्रे । सेवां सेवनम् । विदधति बिभर्ति ॥ ५५ ॥ तन्मे देव श्रियमुपरि मां तन्वतीयं त्वदङ्घयो___ भक्तिर्भूयान्निखिलसुखदा जन्मनीहाप्यमुत्र । कान्तासङ्गैरलमघवशाभुतां वर्धयद्भिः साभिज्ञानं प्रहितवचनैस्तत्र युक्तैर्ममापि ॥ ५६ ॥ तदिति॥ तत् तस्माद्धेतोः। देव भो स्वामिन् । उपरि माम् उत्तरफलरूपाम् । श्रियं सम्पदम् । तन्वति कुर्वति । इह अस्मिन् । अमुत्रापि परत्रापि । जन्मनि भवे । निखिलसुखदा निखिलानि सुखानि ददातीति तथोक्ता । त्वदङ्घयोः तव पादयोः । “पदभिश्चरणोऽस्त्रियाम्" इत्यमरः । इयं भक्तिः गुणानुरागः । मे मम । भूयात् भवतु। अघवशात् मोहनीयाख्यपापवशात् । गृध्रुताम् अभिलाषुकत्वम् । "गृवस्तु गर्धनः । लुब्धोभिलाषुकः" इत्यमरः । वर्द्धयद्भिः एधयद्भिः। . साभिज्ञानं सलक्षणं यथा तथा । प्रहितवचनैः प्रहितकुशलैरिति वा पाठः । प्रहितं प्रेषितं वचनं कुशलं वा येषु तैः । तत्र तत्कार्ये । युक्तैरपि विशिष्टैरपि । कान्तासङ्गैः वनितासंसर्गः। मम भुजगराजस्य । अलं पर्याप्तम् । अनादिकर्मवशात् पुनः काङ्क्षां वर्धयन्तः ।

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292