Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
सटीकम् ।
भो भवान् हे दैत्य त्वम् । एतस्मात् अस्मात् । अभिशानदानात् अभिज्ञायत इत्यभिज्ञानं लक्षणं तस्य आदानं वितरणं तस्मात् । मां नागेन्द्रम् । कुशलिनं.क्षेमवन्तम् । विदित्वा ज्ञात्वा । मा पयासीत् भवच्छब्दयोगात् मोपगच्छेत्यर्थः । एवम् इत्यभयदानेन । धरणपतिना धरणेशेन । रुद्धः व्यवस्थापितः ॥५१॥
पूर्वार्धपादवेष्टितं पश्चार्धिवेष्टितम्
देवस्यास्य प्रियसहजकः पूर्वजन्मन्यभूस्त्वं __ स्त्रीकाम्यंस्तं प्रसभमवधीर्वैरकाम्यंस्तदैनम् । तत्ते मौढ्यात्कृतमनुचितं मर्षितं न त्वयापि ___ मा कौलीनादसितनयने मय्यविश्वासनी भूः ॥५२॥ देवस्येति ॥ पूर्वजन्मनि कमठचरमरुभूतिभवे । अस्य देवस्य । मरुभूतिचरस्यास्य पार्वतीर्थनाथस्य । त्वं भवान् । प्रियसहजकः सह जायत इति सहजः स एव सहजकः प्रियश्चासौ सहजकश्च तथोक्तः । कमठनामा प्रियभ्रातृकः । अभूः अभवः । तदा तत्काले । स्त्रीकाम्यन् स्त्रीमिच्छत्यात्मन इति । वैरकाम्यन् सन् । तमेनं स्वामिनम् । प्रसभं सहसा । " प्रसभस्तु बलात्कारो हठः” इत्यमरः । अवधीः जघनिथ । 'वध हिंसायां' लुङ् । तत् तत्कार्यम् । ते तव । मौढ्यात् अज्ञानात् । अनुचितम् अयुक्तम् । कृतमपि विहितमपि । त्वया भवता । न मर्षितं न शमितम् । निरपराधिनं न वधामीति न निश्चितमित्यर्थः । मयि नागेन्द्रे । असितनयने असिते रक्ते नयने यस्य तस्मिन् सति कौलीनात् कुले भवात् कौलीनात् लोकवादात् । " स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् " इत्यमरः । मय्यविश्वासनी भूः प्रागनविश्वासनः इदानीमविश्वासनो मा भूरिति तथोक्तम् । अविश्वासवान्मा भूरित्यर्थः ॥ ५२ ॥

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292