Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press

View full book text
Previous | Next

Page 265
________________ २५३ सटीकम् । कौमुदी ज्योत्स्ना" इत्यमरः । क्षपासु निशासु । “ त्रियामा क्षणदा क्षपा” इत्यमरः । विरहगुणितं विरहे गुणितम् एवमेवं करिष्याव इति मनस्यावर्तितमिति भावः । तंतम् । वीप्सायां द्विः । सर्वमित्यर्थः । अभिलाषं तर्षम् । “ कामोऽभिलाषस्तर्षश्च " इत्यमरः । एवं नियमेन । निर्वेक्ष्यावः भोक्ष्यावः । “ निर्वेशो भृतिभोगयोः " इत्यमरः ॥४८॥ पूर्वपश्चार्धयोरर्धवेष्टितमेवप्रस्थानेऽस्य प्रहतपटहे दिव्ययानावकीर्णे कश्चित्कान्ता तदनुगजनः सस्मितं वीक्षते स्म । भूयश्वाहं त्वमसि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमपि रुदती सखरं विप्रबुद्धा ॥ ४९॥ प्रस्थान इति ॥ प्रहतपटहे प्रहतास्ताडिताः पटहा यस्मिन् तस्मिन् । दिव्ययानावकीर्णे दिव्ययानैर्विमानैरवकीर्णे । अस्य नागराजस्य । प्रस्थाने गमने । “ प्रस्थानं गमनं गमः” इत्यमरः । पार्वतीर्थनाथस्य केवलज्ञानकल्याणयात्रायामित्यर्थः । कश्चित्कोपि । तदनुगजनः तस्य अनुगच्छतीति तदनुगः स चासौ जनश्च तथोक्तः नागेन्द्रानुचरः । “ भृत्योथ भृतकः पत्तिः पदातिः पदनोऽनुगः” इति धनञ्जयः । कान्तां निजपत्नीम् । सस्मितं स्मितेन सहितं यथा तथा ईक्षते स्म ईशाञ्चके । भूयश्च पुनरपि । आह ब्रवीति । पुरा पुराशब्दश्चिरातीते । " स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः । पुरा पूर्वम् । शयने शय्यायाम् । मे मम । कण्ठलग्ना गलाश्लिष्टा । त्वं भवती । गलबद्धस्य कथमन्यगमनं न सम्भवेदित्यर्थः । निद्रां गत्वा निद्रां प्राप्य । किमपि केन वा निमित्तेनेत्यर्थः । सखरं सशब्दम् । उच्चरित्यर्थः । रुदती रोदनं कुर्वती । विप्रबुद्धा प्रबोधवती। असि भवसि ॥४९ ॥

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292