Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२५२
पार्श्वाभ्युदयकाव्यं
- ज्योत्स्नेति ॥ शरत् शरत्कालः । अस्य दैत्यस्य कमठचरासुरस्य । दुरन्तां दुष्टोऽन्तो यस्यास्तां दुःखफलाम् । अज्ञानवृत्तिम् अबोधवर्तनाम् । प्रहसितुमिव अपहसितुमिव । दिशिदिशि ककुभिककुभि । वीप्सायां द्विः । सर्वास्वपि दिशास्वित्यर्थः । ज्योत्स्नाहासं ज्योत्स्नैवहासस्तम् । तन्वती तनोतीति तन्वती शत्रुत्यः । " नृदुक्” इति ङी । लोचने नयने । मीलयित्वा निमील्य । अन्यान् शेषान् । चतुरो मासान् मासचतुष्टयम् । गमय यापय । इति एवम् । दिशाम् आशानाम् । वैमल्येन नैर्मल्येन । उष्णकालं निदाघम् । " निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः इत्यमरः । स्फुटं व्यक्तम् । रुन्धतीव आवृण्वतीव । प्रादुरासीत् प्रादुर्बभूव । प्रकाशमाना बभूवेत्यर्थः “ 1 प्राकाश्ये प्रादुराविः स्यात् ” इत्यमरः । षण्णाम् ऋतूनाम् त्रिकालत्वेनाभिमननात् वर्षाकालान्तर्भूतशरदृतोः सकाशात् अन्यान् हिमशिशिरात्मकस्य हेमन्तस्य चतुरो मासानतीत्य वसन्तग्रीष्मात्मको निदाघकालो भविष्यतीति भावः ॥ ४७ ॥
""
जाताकम्पासननियमितः सावधिर्नागराजः
कान्तां स्माह प्रथममधिपं पूजयावोऽद्य गत्वा । पश्चादावां विरहगुणितं तं तमेवाभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥४८॥ ॥ ५० ॥४७
जातेति । जाताकम्पासननियमितः जात आकम्पो यस्य तज्जाता कम्पं तच तदासनं च तेन नियमितः नियुक्तः । सावधिः अवधिज्ञानसहितः । नागराजः धरणेन्द्रः । कान्तां पद्मावतीम् । आह स्म उवाच । अद्य इदानीम् । आवां त्वं चाहं चावाम् । त्यदादिरित्येकशेषसमासः । गत्वा यात्वा । प्रथमं पूर्वम् । अधिपं सर्वज्ञम् । पूजयावः महयावः । पश्चादनन्तरम् । परिणतशरञ्चन्द्रिकासु परिणता प्रौढा शरञ्चन्द्रिका शरदिन्दुकौमुदी यासां तासु । “चन्द्रिका

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292