SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २५२ पार्श्वाभ्युदयकाव्यं - ज्योत्स्नेति ॥ शरत् शरत्कालः । अस्य दैत्यस्य कमठचरासुरस्य । दुरन्तां दुष्टोऽन्तो यस्यास्तां दुःखफलाम् । अज्ञानवृत्तिम् अबोधवर्तनाम् । प्रहसितुमिव अपहसितुमिव । दिशिदिशि ककुभिककुभि । वीप्सायां द्विः । सर्वास्वपि दिशास्वित्यर्थः । ज्योत्स्नाहासं ज्योत्स्नैवहासस्तम् । तन्वती तनोतीति तन्वती शत्रुत्यः । " नृदुक्” इति ङी । लोचने नयने । मीलयित्वा निमील्य । अन्यान् शेषान् । चतुरो मासान् मासचतुष्टयम् । गमय यापय । इति एवम् । दिशाम् आशानाम् । वैमल्येन नैर्मल्येन । उष्णकालं निदाघम् । " निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः इत्यमरः । स्फुटं व्यक्तम् । रुन्धतीव आवृण्वतीव । प्रादुरासीत् प्रादुर्बभूव । प्रकाशमाना बभूवेत्यर्थः “ 1 प्राकाश्ये प्रादुराविः स्यात् ” इत्यमरः । षण्णाम् ऋतूनाम् त्रिकालत्वेनाभिमननात् वर्षाकालान्तर्भूतशरदृतोः सकाशात् अन्यान् हिमशिशिरात्मकस्य हेमन्तस्य चतुरो मासानतीत्य वसन्तग्रीष्मात्मको निदाघकालो भविष्यतीति भावः ॥ ४७ ॥ "" जाताकम्पासननियमितः सावधिर्नागराजः कान्तां स्माह प्रथममधिपं पूजयावोऽद्य गत्वा । पश्चादावां विरहगुणितं तं तमेवाभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥४८॥ ॥ ५० ॥४७ जातेति । जाताकम्पासननियमितः जात आकम्पो यस्य तज्जाता कम्पं तच तदासनं च तेन नियमितः नियुक्तः । सावधिः अवधिज्ञानसहितः । नागराजः धरणेन्द्रः । कान्तां पद्मावतीम् । आह स्म उवाच । अद्य इदानीम् । आवां त्वं चाहं चावाम् । त्यदादिरित्येकशेषसमासः । गत्वा यात्वा । प्रथमं पूर्वम् । अधिपं सर्वज्ञम् । पूजयावः महयावः । पश्चादनन्तरम् । परिणतशरञ्चन्द्रिकासु परिणता प्रौढा शरञ्चन्द्रिका शरदिन्दुकौमुदी यासां तासु । “चन्द्रिका
SR No.022647
Book TitleParshvabhyudayam
Original Sutra AuthorN/A
AuthorJinsenacharya, Natharang Gandhi
PublisherNirnanysagar Press
Publication Year1910
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy