________________
सटीकम् ।
२५१
चक्रनेमिक्रमेण चक्रस्य रथाङ्गस्य नेभिस्तदन्तश्चक्रम् । " चक्रं रम्राङ्ग तस्यान्ते नेमिः स्त्री स्यात्प्रधीः पुमान् " इत्यमरः । तस्याः क्रमेण क्रमशः। नीचैरधस्तात् । उपरि च ऊर्ध्वमपि । गच्छति प्रवर्तते जन्तोः सुखदुःखे पर्यावर्तेते । न ध्रुवभूते इत्यर्थः ॥ ४५ ॥ इतः पूर्वार्धपादबेष्टितेन पश्चार्धपादवेष्टितम्यस्मिन्काले समजनि मुनेः केवलं ज्ञानसम्पद्यस्मिन्दैत्यो गिरिमुदहरन्मूर्ध्नि चिक्षेप्सुरस्य । तत्कालं सा शरदुदभवद्वक्तुकामेतिवोच्चैः
।
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ ॥ ४६ ॥ यस्मिन्निति ।। यस्मिन् यस्मिन्काले । दैत्यः असुरः । अस्य पार्श्वतीर्थनाथस्य । मूर्ध्नि मस्तके । " मूर्धा ना मस्तकोऽस्त्रियाम् ” इत्यमरः । चिक्षेप्सुः क्षेमुमिच्छुः । गिरिं पर्वतम् । उदहरत् धरति स्म । तस्मिन् काले । मुनेः पार्श्वनाथस्य । केवलज्ञानसम्पत् कैवल्यवेधसम्पत्तिः । समजनि जायते स्म । शार्ङ्गपाणौ शार्ङ्ग पाणौ यस्य तस्मिन् विष्णौ । ' प्रहरणात्सप्तमी च' इति पाणिशब्दस्य विकल्पतः पूर्वनिपातः । भुजगशयनात् भुजगः शेष एव शयनं तस्मात् । उत्थिते उत्तिष्ठते स्म उत्थितः तस्मिन्सति । मे मम । शापान्त इति । शपनावसानमिति । सा शरत् शरदृतुः । तत्कालं शापकालम् । उच्चैः अधिकम् । वक्तुकामा वा वक्तुं कामा तथोक्ता वक्तुमिच्छन्तीव । वाशब्द इवार्थे । उदभवत् उद्बभूव । शरत्कालादिरेव हरिप्रबोधनकालः । तस्मिन् शरत्कालादौ स्वामिनः केवलज्ञानं समजायतेति भावः॥४६॥ ज्योत्स्नाहासं दिशिदिशि शरत्तन्वती प्रादुरासी
दैत्यस्यास्य प्रहसितुमिवासानवृत्तिं दुरन्ताम् । वैमल्येन स्फुटमिति दिशां रुन्धती वोष्णकालं
मासानन्यान्गमय चतुरो लोचने मीलयित्वा ॥ ४७ ॥