________________
२५०
पार्श्वाभ्युदयकाव्यं
1
विक्रान्तः ” इत्यमरः । मे मम कान्तायाः । युक्ति युक्तियुक्तम् । प्रतिवचनकं प्रत्युत्तरम् । देहि देयाः । माम् । वृथाशां व्यर्थाभिलाषवतीम् । मा कार्षीः मा कृथाः । ननु भो प्रिये । अहम् । विगणयन् योगान्ते सत्यमेवं विहरिष्यामीति मनस्यावर्तयन् । आत्मानं माम् । आत्मनैव स्वेनैव । प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । अवलम्बे धारयामि यथाकथंचिज्जीवामीत्यर्थः । तत् तस्मात् कारणात् । कल्याणि भो सौभाग्यवति । “बह्लादेः" इति ङी । अनेन सौभाग्येनाहं जीवामीत्याशयः । त्वमपि अहमिव भवत्यपि । नितराम् अत्यन्तम् सुतरां वा । कातरत्वम् अधीरत्वम् । " अधीरे कातरख़स्ते " इत्यमरः । मा गमः मा ग्रच्छ । गमेर्लुङ् । इत्येतद्वचः । ते तव । यदि च । रुचितं चेत् तर्हि । तदा तत्समये । भाष्यं वक्तव्यम् । एवं वक्तुमभिलाषा चेत् ब्रूहीति भावः ॥ ४४ ॥
एवं प्रायां निकृतिमसुरः स्त्रीमयीमाशु कुर्वन् व्यर्थोद्योगः समजनि मुनौ प्रत्युतागात्स दुःखम् । कस्यैकान्तं सुखमुपनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४५ ॥ ॥ ४९ ॥ ४६ ॥
,,
एवमिति ॥ मुनौ पार्श्वनाथे । असुरः दैत्यः । एवम् । प्रायां बहुलाम् । “ प्रायो भूम्नयन्तगमने ” इत्यमरः । स्त्रीमयीं स्त्रीविकारामू स्त्रीप्रकृतिं वा । निकृतिं शाठ्यम् । " कुसृतिर्निकृति: शाठ्यम् इत्यमरः । आशु शीघ्रम् । कुर्वन् वितन्वम् । व्यर्थो - द्योगः निष्फलप्रयत्नः । समजनि समजायत । प्रत्युत किं पुनः । सः दैत्यः । दुःखं व्यथाम् । अगात् अगमत् । तथाहि एकान्तं केवलम् । अत्यन्तमिति वा पाठः । अत्यन्तं नियतम् । सुखं सौख्यम् । पुरुषस्य उपनतं प्राप्तमिति प्रश्नः । एकान्ततः नियमेन । दुःखं वा दुःखमपि । कस्यापनतम् । किन्तु । दशा सुखदुःखयोरवस्था |