Book Title: Parshvabhyudayam
Author(s): Jinsenacharya, Natharang Gandhi
Publisher: Nirnanysagar Press
View full book text
________________
२५४
पाश्र्धाभ्युदयकाव्यं यत्तवृत्त स्मरसि सुभगे मामुपालन्धुकामा - मन्ये त्वीपत्कुपितमिव मे दर्शयन्ति प्रपासि
सान्तर्हासं कथितमसकृत्पृच्छतोसि त्वया मे । ___दृष्टः खमे कितव रमयन्कामपि त्वं मयेति ॥५०॥॥५१॥४८॥
यत्तदिति ॥ सुभगे भो सौभाग्यवति । असकृत् बहुशः। पृच्छतः शृण्वतः । मे मम । कितव भो धूर्त । त्वं भवान् । कामपि कामपि प्रियाम् । रमयन् क्रीडयन् । मया स्वग्ने दृष्टोसि ईक्षितोऽसीति । त्वया कामिन्या । सान्तत्सम् अन्तर्हासेन सहितम् यथा तथा । कथितं भाषितम् । यद्वृत्तं यद्वर्त्तनम् । माम् उपालब्धुकामा मां हन्तुकामा । स्मरसि ध्यायसि । तु पुनः। ईषत्कुपितं प्रणयकोपम् । मे मम । दर्शयन्तीव प्रकाशयन्तीव । प्रपासि पालयसि। जाने मन्ये । इति पूर्वेणान्वयः ॥५०॥ दृष्ट्वाहीन्द्रं स्थितमधिजिनं सत्सपर्य सजानि
प्रालेभेऽसौ सभयमसुरो मुक्तशैलोपयातुम् । रुद्रश्चैवं धरणपतिना भो भवान्मा पयासी
देतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा ॥५१॥ . दृष्ट्येति ॥ अधिजिनं जिनमधिकृत्य प्रवर्तमानं तथोक्तं तस्मिन् । "लब्धप्रथ" इत्यादिनाव्ययीभावः। जिनेन्द्राभिमुखमित्यर्थः। स्थितं तिष्ठति स्म स्थितस्तम् । सत्सपये सती सपर्या यस्य तम् । “सपर्या चाहणा समा" सजान सह जायया वर्तत इति सजानिस्तम् । "जायाया जानिः" इति बहुव्रीहावादेशः । अहीन्द्रं धरणीधरेन्द्रम् । दृष्ट्वा प्रेक्ष्य । असावसुरः एष दैत्यः । सभयं भयसहितं यथा तथा। मुक्तशैलः त्यक्तपर्वतः सन् । तन्मुनीन्द्रस्योपरिक्षेनुमुद्धृतं गिरिं भुवि निक्षिप्येत्यर्थः । अपयातुम् अपगन्तुंम् । प्रारेभे उपचक्रमे । च पुनः।

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292